________________
विचार
P
रत्नाकरः
॥१५॥
भावश्रुतं भावेन्द्रियज्ञान कञ्चिद् दृश्यते एव वनस्पत्या अवणस्येन्द्रियस्य व्यक्तविश्वभुरिन्द्रियज्ञान
इह केवलिनो विहाय शेषसंसारिजीवानां सर्वेषामप्यतिस्तोकबहुबहुतरबहुतमादितारतम्यभावेन द्रव्येन्द्रियेष्वसत्स्वपि लब्धीन्द्रियपश्चकावरणक्षयोपशमः समस्त्येव, ततश्च यथा पृथिव्यादीनामेकेन्द्रियाणां श्रोत्रचक्षुर्घाणरसनस्पर्शनलक्षणानां प्रत्येक निर्वृत्युपकरणरूपाणां द्रव्येन्द्रियाणां तत्प्रतिबन्धककर्मावृतत्वादवरोधेऽप्यभावेऽपि सूक्ष्ममव्यक्तं लब्ध्युपयोगरूपश्रोत्रादिभावन्द्रियज्ञानं भवति । लब्धीन्द्रियावरणक्षयोपशमोद्भूताणीयसी ज्ञानशक्तिर्भवतीत्यर्थः। तथा तेनैव प्रकारेण द्रव्यश्रुतस्य द्रव्येन्द्रियस्थानीयस्याभावेऽपि भावश्रुतं भावेन्द्रियज्ञानकलं पृथिव्यादीनां भवतीति प्रतिपत्तव्यमेव । इदमुक्तं भवति-एकेन्द्रियाणां तावच्छ्रोत्रादिद्रव्येन्द्रियाभावेऽपि भावेन्द्रियज्ञानं किञ्चिद् दृश्यते एव वनस्पत्यादिषु स्पष्ट तलिङ्गोपलम्भात् । तथा हि-कलकंठोगीर्णमधुरपञ्चमोद्गारश्रवणात्सद्यः कुसुमपल्लवादिसम्भवो विरहकवादिषु श्रवणस्येन्द्रियस्य व्यक्तमेव लिङ्गमवलोक्यते । तिलकादिषु तरुषु पुनः कमनीयकामिनीकमलदलदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात्कुसुमाद्याविर्भावश्चक्षुरिन्द्रियज्ञानस्य । चंपकाद्यघ्रिपेषु तु विविधसुगन्धिगन्धवस्तुनिकुरम्बोन्मिश्रविमलशीतलसलिलसेकात्प्रकटनं घ्राणेन्द्रियज्ञानस्य । बकुलादिभूरुहेषु तु रम्भातिशायिस्पर्शप्रवरतररूपवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारुणीगंडूषास्वादनात्तदाविःकरणं रसनेन्द्रियज्ञानस्य । कुरुबकादिविटपिषु अशोकादिद्रुमेषु च घनपीनोअतकठिनकुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भरणन्मणिवलयकणकङ्कणाभरणभूषितभव्यभामिनीभूजलतावगूहनसुखाग्निःपिष्टपद्मरागचूर्णशोणतलपादकमलपार्णिप्रहाराच्च झटिति प्रसूनपल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य स्पष्टं लिङ्गममिवीक्ष्यते । ततश्च यथैतेषु द्रव्येन्द्रियासत्त्वेऽपि एतद्भावेन्द्रियज्ञानं सकलजनप्रसिद्धमस्ति तथा द्रव्यश्रुताभावे भावश्रुतमपि भविष्यति । दृश्यते हि जलाद्याहारोपजीवनस्पतीनामाहारसंज्ञा । सङ्कोचव
॥१६॥
Jain Education 12
tonal
For Private Personel Use Only
www.jainelibrary.org