SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Jain Education मुक्तवान् तस्य का गतिर्भाविनी १ इति । अथवा पर्याप्तं चिन्तयाऽवश्यंभाविनोऽप्रतीकार्यत्वम् । गतिं तु तस्योपमितिभवप्रपश्चैव उक्तवती । ननु भवद्भिरपि द्रव्यलिङ्गिबोटिक कटुकचैत्यानामवन्द्यत्वमङ्गीकृतमेव, ततश्चोभयोः समौ दोषपरिहारौ, मै जान्मत्वं त्यज्यताम् । तेषां हि साध्वादिव्यवहारवाद्यत्वेन सर्वविसंवादित्वेन साधुत्वस्कन्धोत्थापकत्वेन च सङ्घादिव्यवहाररहितत्वं ततस्तत्संबन्धिचैत्यानां प्रणतिनिषेधो न्याय्य एव । यथाऽन्यतीर्थीयपरिगृहीतानां पूर्वोक्तं वचनं च सङ्घादिव्यवहारह्यान् विहायान्यत्रैव प्रवर्त्तते । अन्यथाऽन्यतीर्थीयपरिगृहीतार्हचैत्यानामपि वन्द्यत्वापत्तेः तच्चागमविरुद्धम् । न च वाच्यमन्ये यदि साधुव्यवहारयुक्तास्तर्हि ते वन्द्याः सन्तु इति । ते हि व्यवहारतो द्रव्यसाधवोऽपि उत्सूत्रभाषित्वान्नैव वृन्द्याः, प्रसङ्गवासनासम्भवाद्यनेकदोषसम्भवात् । प्रतिमा तु नोत्सूत्र भाषिणीति, व्यवहारसाध्वादिप्रतिष्ठितेति च पुरातनैमहापुरुषैः प्रणतेति च प्रणम्यत एव व्यवहारसाधुत्वं चामीषां भवताऽप्यङ्गीकर्त्तव्यमेव । इतरथा कापालिकाद्यर्थमाधाकर्मी कृतमशनादि भवतां कल्पते । एतदर्थं कृतं च भवतां न कल्पते तत्कथमित्यलं व्यासेन । कदाग्रहत्यागे सर्व सुस्थमेवेति दिक् ।। यदि त्रिविधाहार उपवासः प्रत्याख्यातस्तदा परिष्ठापनकं भक्तादि कल्पते । यदि चतुर्विधाहारः प्रत्याख्यातः पानकं च नास्ति ततो न कल्पते । यदि पानीपमप्यधिकं ततो कन्पते । इति श्रीभाष्यावचूर्णो ॥ ७८ ॥ खरतराः श्रीश्रभयदेवसूरिरस्मत्पूर्वजः, इति वदन्ति परं तदसत् श्रीभगवत्यादिवृष्यन्ते चन्द्रकुलस्यैवानीतत्वात् । सुविहिता महापुरुषाः सम्भाव्यन्ते । यदि च खरतरगच्छीया स्युस्तर्हि कल्याणकानि पश्चेति कथं व्याख्यातवन्त । For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy