SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ लोकोत्तरदेवगतं-परतीर्थिकसहीतजिनबिम्बार्चनादिसप्रत्ययश्रीशान्तिनाथपार्श्वनाथादिप्रतिमाणामिह लोकार्थ यात्रोपचितमाननादि च, लोकोत्तरगुरुगतं च-लोकोत्तरलिङ्गेषु पार्श्वस्थादिषु गुरुत्वबुद्ध्या वन्दनादि । गुरुस्तूपादावहिकफलार्थ | यात्रोपयाचितादि च । ननु यथा वैद्यादयो व्याधिप्रतीकाराद्यर्थ धनभोजनवसनादिना बहु मन्यन्ते तथा सप्रभावयक्षयक्षिण्यादीनामप्यैहलौकिकफलार्थ पूजोपयाचितादौ को दोषः । मिथ्यात्वं हि तदा स्थायदि मोक्षप्रदोऽयमिति बुद्ध्याऽऽराध्येत । यदाहु:-"अदेवे देवबुद्धियों, गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च, मिथ्यात्वं तद्विपर्ययात ॥१॥" श्रूयते च-विशुद्धदृढसम्यक्त्वा रावणकृष्णश्रेणिकाभयकुमारादयोऽपि शत्रुञ्जयपुत्रप्राप्त्यायैहिककार्यार्थ विद्यादेवताधाराधनं कृतवन्त इति । ततश्चेह लोकार्थ यक्षाद्याराधनेऽपि किं नाम मिथ्यात्वम् ? सत्यम् । तत्त्ववृत्याऽदेवस्य देवत्वबुद्ध्याऽऽराधनं एव मिथ्यात्वं तथाऽपि यक्षायाराधनमिह लोकार्थमपि श्रावकेण वर्जनीयमेव, प्रसङ्गाद्यनेकदोषसम्भवात् । प्रायो हि जीवा मन्दमुग्धवक्रबुद्धयः । सम्प्रति च विशिष्य ते ह्येवं विमृशन्ति । यद्यनेन विशुद्धसम्यक्त्वेन महात्मना यक्षाद्याराधनं विधीयते तदा नूनमयमपि देवो मोक्षप्रदतया सम्यगाराध्य इत्यादिपरम्परया मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसङ्गः । तथा चैहिकफलार्थमपि यक्षाद्याराधकस्यापि प्रेत्य बोधिर्दुःप्रापः स्यात् । उक्तं च-" अन्नेसि सत्ताणं मिच्छत्तं जो जणेइ मूढप्पा । | सो तेण निमित्तेणं, न लहइ बोहिं जिणामिहियं ॥ रावणकृष्णादिभिश्च तत्समयेऽर्हद्धर्मस्येतरधर्मेभ्योऽतिशायितया सर्वप्रतीतत्वेनापवादपदे यदि विद्याराधनादिकृतं तदाऽपि तदालम्बनग्रहणं नोचितम् । यतः- " जाणिज मिच्छदिट्ठी, जे य A परालंबणाइ घिप्पंति । जे य पुण सम्मदिट्ठी, तेसि पुणो चडइ पयडीए ॥१॥” इति श्रीश्राद्धप्रतिक्रमणसूत्रवृत्ती Jain Education international For Private Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy