________________
विचार-
रत्नाकरः
॥१२॥
सामान्येन, तदनुमतिभावात् । भवति च भगवतां पूजासत्कारावुपलभ्य साधोः प्रमोदः। साधु-शोभनमिदमेतावजन्मफलम- विरतानामिति वचनलिङ्गगम्यः । तदनुमतिरियं, उपदेशदानतः, कारणापत्तेश्च, ददाति च भगवतां पूजासत्कारविषयमुपदेशर कर्तव्या जिनपूजा, न खलु वित्तस्यान्यच्छुभतरं स्थानमिति वचनसन्दर्भेण तत्कारणम् , एतदनवा च । तदोषान्तरनिवृत्तिद्वारेणायमत्र प्रयोजकोंऽशः । तथा भावतः प्रवृत्तेरुपायान्तराभावात् । नागदत्तसुतगर्ताकर्षणज्ञातेन भावनीयमेतत् । तदेवं साधुरित्थमेवैतत्सम्पादनाय कुर्वाणो नाविषयः । वचनप्रामाण्यादित्यमेवेष्टसिद्धिः, अन्यथाऽयोगादिति । श्रावकस्तुसम्पादयन्नप्येतो भावातिशयादधिकसम्पादनार्थमाह-न तस्यैतयोः सन्तोपः, तद्धर्मस्य तथा स्वभावत्वात् , जिनपूजासत्कारयोः करणलालसः खल्वाद्यो देशविरतिपरिणामः, औचित्यप्रवृतिसारत्वेनोचितारम्भिण एतौ सदारम्भरूपत्वात् , औचित्याज्ञाऽमृतयोगादसदारम्भनिवृत्तेः, अन्यथा तदयोगादतिप्रसङ्गादिति । तथा हि-द्रव्यस्तव एवैती, स च भावस्तवाङ्गमिष्टः, तदन्यस्या| प्रधानत्वात् , तस्याभव्येष्वपि भावात् । अत आज्ञयाऽसदारम्भनिवृचिरूप एवायं स्यात् । औचित्यप्रवृत्तिरूपेऽप्यल्पभावत्वात् द्रव्यस्तवः गुणाय चायं, कूपोदाहरणेन । न चैतदप्यनीदृशं इष्टफलसिद्धये । किं तु आज्ञामृतयुक्तमेव । स्थाने विधिप्रवृत्तेरिति सम्यगालोचनीयमेतत् । तदेवमेतयोः साधुश्रावकावेव विषय इत्यलं प्रसङ्गेन । इति श्रीहरिभद्रसूरिकृतायां ललितविस्तरायाम् ॥ ७५ ॥
तथा जिनपूजा यदि मोक्षसाधनं तर्हि साधुभिः कुतो न क्रियत इत्यादि ये प्रलपन्ति तेषामपीदमेव मुखमुद्रणमिति । अथ लोकोत्तरमिथ्यात्वस्वरूपं लिख्यते--
॥१२॥
Jain Education Inter16
For Private & Personel Use Only
Virw.jainelibrary.org