________________
श्लोकसुभाषितविनोदकथादिकथकानां रञ्जितचेतसां यद्दीयते तदुचितदानम् , यथा चक्रवर्त्तिना प्रतिदिनं प्रभातसमये विहरमानतीर्थङ्करस्थितिशुद्धिज्ञापकाय वृत्तिर्दीयते, यथा 'वित्तीओ सुवणस्स उ' इत्यादि । अथ पञ्चमकीर्त्तिदानं कीा-निजकुलरूपवंशविद्यागुणवर्णनरूपया भट्टचारणमल्लगन्धर्षमार्गणादीनां यद्दीयते तत्कीर्तिदानम् । यथा सोनाजलहरकूटसागरकडाहिसमुद्रदारिद्रयमुद्राविहंडणहार इत्यादिविविधगुणवर्णनोत्साहिताः कीर्त्यभिलाषिणो दानव्यसनवासितचेतसः समस्तमपि ददति पुरुषास्तदुपरि विक्रमादित्यकीर्तिदानप्रबन्धाः । इति तपागच्छे श्रीसोमसुन्दरसूरिश्रीरत्नशेखरसूरिशिष्यपण्डितनन्दिरत्नगणिशिष्यरत्नमन्दिरगुम्फितायामुपदेशतरङ्गिण्यां धर्मोपदेशतरङ्गे ॥ ७४ ॥
अहो प्रतिमारिपो ? ' वंदणवत्तियाए पूअणवत्तियाए ' इत्याद्यावश्यकसूत्रादौ प्रतिमापूजनाक्षराणि पश्यन्नपि किं मुह्यसे । | ननु 'वंदणवत्तियाए' इत्यादि तु साधुरपि पठति, साधोस्तु द्रव्यार्चनं भवतामप्यनभिमतं ततः कथमयमर्थः समर्थः साधयितुं भवत्समीहितम् । मैवं क्षीरकंठ ! त्वदुत्पत्तेः पूर्वमेव पूर्वाचार्यैरियं शङ्का समुङ्कथ निराकृताऽस्तीति सकर्णो भूत्वा शृणु तथा ' पूअणवत्तियाए 'त्ति पूजनप्रत्ययं-पूजानिमित्तं पूजन-गन्धमान्यादिभिः समभ्यर्चनं, तथा 'सक्कारवत्तियाए' त्ति सत्कारप्रत्ययं-सत्कारनिमित्तं प्रवरवस्त्रादिभिः समभ्यर्चनं सत्कारः। आह-क एवमाह साधुः श्रावको वा। तत्र साधोस्तावत्पूजनसत्कारावनुचितावेव, द्रव्यस्तवत्वात् , तस्य तत्प्रतिषेधात् ' तो कसिणसंजमविऊ पुप्फाईयं न इच्छति' इति वचनात् , श्रावकस्तु सम्पादयत्येवैतौ, यथाविभवं तस्य तत्प्रधानत्वात् , तत्र तत्र दर्शितत्वात् , 'जिणपूया विभववुड्डि' ति वचनात् । तत्कोऽनयोर्विषयः ? इति । उच्यते-सामान्येन द्वावपि साधुश्रावको, साधोः स्वकरणमधिकृत्य द्रव्यस्तवप्रतिषेधः, न पुनः
Jain Education
L
oga
For Private & Personel Use Only
www.jainelibrary.org