________________
नियमभङ्गे पट्गुरुप्रायश्चित्तं भवति । अन्ये तु सामान्येन पञ्चोदुम्बरीफलपुष्पादिवतभङ्गे लघु नमस्काराष्टशतं त्वेके । अपरे तु नियम विनापि पञ्चोदुम्बर्यादिषु निषिद्धेषु भक्षितेषु चतुर्गुरु, नियमभङ्गे तु षट्गुरुकमाहुः । अनियमे इत्यादि यस्य ब्राह्मणवणिजादेर्जातिस्वभावादेव पिशितादीनि न भक्ष्यन्ते, तस्य निर्विषयत्वात् । कदाचिदकृतनियमस्यापि पिशितासवम्रक्षणानाम् । तत्र पिशितं-मांसं, आसवो-मद्य, म्रक्षणं-नवनीतं, एतेषां भक्षणे दशक क्षपणानामिति गाथार्थः ॥८९॥ अथ भोगोपभोगगुणव्रत एवानन्तकायप्रत्येकवनस्पतिनियमविषयं किञ्चिन्मांसासवविषयं विशेषप्रायश्चितं चाह-चउगुरुणंते चउलहु, परित्तभोगे सचिचव जिस्स । मंसासववयभंगे, छग्गुरु चउगुरु अणाभोगे ।। व्याख्या-सचित्तवर्जकस्य-श्रावकादेः 'अनंते ' त्ति अनन्तकायानां मूलकाद्रकादीनां भक्षणे चतुर्गुरु ही प्रायश्चित्तं भवति । यदागमः-"साऊ जिणपडिकुट्ठो, अणंतजीवाणगायनिप्फन्नो । गेही पसंगदोसा, अणंतकाए अओ गुरुगा ॥१॥" तथा सचित्तवर्जकस्यैव श्राद्धादेः 'परित्त' प्रत्येकपरिभोगे प्रत्येकाम्रादिपुष्पफलादिभोगे चतुर्लघुप्रायश्चित्तं भवति । तथा मांसासवयोरुपलक्षणत्वान्मधुनवनीतयोश्च 'वयभंगे' त्ति अनाभोगतः पृथग्वक्ष्यमाणत्वादत्राभोगतो ज्ञेयम् , ततश्चाभोगे सति व्रतस्य नियमस्य भङ्गे पद्गुरु 'चउगुरु 'त्ति अनाभोगे मांसासवमधुनवनीतानां व्रतभङ्गे चतुर्गुरु प्रायश्चित्तं भवतीति गाथाक्षरार्थः ॥१०॥ इति श्रीश्राद्धजीतसूत्रवृत्तौ ३० पत्रे ॥७२॥
केचिद्रात्रौ अन्धकारयोनिकास्तद्रपाः सर्वत्र जलादौ जीवा उत्पद्यन्ते दिवा विलीयन्त इत्यादि वदन्ति परं तदनवबोधसूचकम् । एवं सति दीपप्रभास्पर्श तज्जीवानामिवान्धकारयोनिकजीवविराधनापत्त्या प्रतिक्रमणाद्यभाव एव सम्पनीपद्यते । प्रकाशान्धकारयोरुभयोरपि बाधितत्वात् । अन्धकारस्य पुद्गलमयत्वं चागमप्रसिद्धमेव-'तहा तज्जोणियाण य' इत्यत्र तु
Jain Education Intematonai
For Private & Personal Use Only
www.jainelibrary.org