________________
विचार
रत्नाकरः
॥१०॥
यदि कर्मगतेवैचित्र्येस रसनास्वादरसस्य दुरपोहत्वेन भुते तर्हि श्रद्धानरूपे सम्यक्त्वे का नाम क्षतिः। अथ तादृग् सद्यः संमू- र्छिमानन्तजन्तुसन्तानदृषितं तद् ज्ञात्वाऽपि भुञ्जानस्य कथं दयापरिणाम: ? तदभावाच्च किं सम्यक्त्वं ? इति चेन्मैवम् , अनन्तजन्तुमयं ज्ञात्वाऽपि मूलकभक्षणं कुर्वतोऽपि सम्यक्त्वक्षतिप्रसक्तेः, न्यायस्योभयत्रापि तुल्यत्वात् । अथ तल्लोकेऽतिनिन्धमिति यदि तत्प्रवृत्तिमत्कुले तस्य निन्द्यत्वाभावात् , मूल कादरिख । तथैव च ज्ञातायां द्रुपदनृपतिगृहे क्षायिकसम्यक्त्वधारी केशवोऽपि अशनपानखादिमस्वादिमयावत्पिशितमद्यादिभुञ्जानः सुखेन व्यहरदिति श्रूयते । अपरं च यद्यनन्तकायादिमांसादिभक्षणे सम्यक्त्वध्वंस एव दृष्टः स्यात्तर्हि तद्भक्षणस्य प्रायश्चित्तं नोक्तं स्यात् । श्रावक एव प्रायश्चित्ताधिकारी, न तु मिथ्यास्वी । अत्र श्राद्धजीते तु ज्ञात्वाऽपि मांसभक्षणे माघीकादिभक्षणे इव प्रायश्चित्तमेवोक्तं, न तु सम्यक्त्वध्वंसोऽश्रावकत्वं वा । सम्यक्त्वाभावे तु प्रायश्चित्तानधिकार एव पुनः सम्यक्त्वोचारो वेत्यपि बोध्यम् । तथा पिशितादिविरतिस्तु चारित्रावरणक्षयोपशमोद्भवा । सम्यक्त्वं तु मोहनीयक्षयक्षयोपशमोद्भवमिति, नानयोरपि कश्चित्सहावस्थाननियमोऽस्तीत्याधत्र बहु वाच्यं अलं प्रसङ्गेनेति । तत्प्रायश्चित्ताधिकारस्त्वयम् , अथ भोगोपभोगगुणवतेऽभक्षनियमविषयं प्रायश्चित्तमाह-"महुपंचुंबरिफलपुप्फमाइवयभंगि गुरुग अन्नाए । नाए छग्गुरुनिअमे, पिसियासवमक्खणे दसगं ।" व्याख्या-मधुप्रतीतं पश्चोदुंबरी उदुंबर १ वट २ प्लक्ष ३ काकोदुंबरि ४ शाखिनां पिष्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलमित्यायुक्तरूपं, फलम्-वृन्ताकादि, पुष्पम्-मधूकादि, आदिशब्दात्पर्युषितद्विदलहिमविषादिपरिग्रहः। एतेषां व्रतस्य नियमस्य भङ्गे 'अन्नाए'त्ति अज्ञातेऽनाभोगत । इत्यर्थः। अज्ञाते सति 'गुरुग' गुरुका:-चतुगुरवः प्रायश्चित्तं भवतीति । 'नाए छग्गुरुग' त्ति ज्ञाते आभोगे सति मधुप्रभृतीनां
क्त्वं तु मास्वयम्, अथ
यासवमक्खणे
कमिकुलाकुलामा अन्नाए नि मामधुप्रभृतीनां ।
॥१९
॥
Jain Education Intem.
For Private & Personel Use Only
INiw.jainelibrary.org