________________
विचार-
॥१८८
पुष्पाणां तत्र प्रकीर्णत्वात् । यदागमः-" विंटट्ठाई सुरहिं, जलथलयं दिव्वकुसुमनीहारी । पयरति समंतेणं, दसद्धवन्नं कुसुम- रत्नाकर वासं ॥" परमत्र बहुश्रुता एवं समादधते-यथा निरुपमाऽचिन्त्याहत्प्रभावादेव योजनमात्रे क्षेत्रेऽपरिमितामयादिसञ्चसम्मवेऽपि न परस्परमाबाधा काचित् तथा पुष्पाणामपि तेषामुपरि सञ्चरिष्णौ स्थाष्णौ च मुन्यादिलोके । तत्त्वं तु केवलिनो विदन्ति । इति श्रीप्रवचनसारोद्धारैकोनचत्वारिंशद्वारे ॥ ६४॥
स्त्रियाः संभोगे चतुर्विधाहारो न भज्यते, बालादीनामोष्ठादिचर्वणे तु भज्यते, द्विविधाहारे तु तदपि कल्पते । प्रत्याख्यानं । हि कावलिकाहारविषयमेव, न तु लोमाद्याहारविषयमपि । अन्यथोपवासाचाम्लादेर्वपुरभ्यङ्गगडुकरम्बवन्धनादिनापि भङ्गप्रसङ्गात् । न चैवं व्यवहारो, लोमाहारस्य निरन्तरसम्भवेन प्रत्याख्यानाभावस्यैव प्रसङ्गात् । इति श्राद्धविधौ ।। ६५॥
अशुद्धैःशुद्धर्वाऽशनपानभेषजादिभिर्लानस्य प्रतिचरणं कर्त्तव्यम् । विशिष्य चाचार्योपाध्यायादीनामित्यभिप्रायो लिख्यते
सम्प्रति 'गुरुपमुहाणं कीरइ असुद्धसुद्धेहिं जत्तियं कालं' इति त्रिंशदुत्तरशततमं द्वारमाह-" जावजीवं गुरुणो, असुद्धसुद्धेहिं वावि कायव्वं । वसहे वारसवासा, अट्ठारस भिक्खुणो मासा ॥ ६६ ॥" यावज्जीवमाजन्माऽपीत्यर्थः । गुरोराचार्यस्य शुद्धैराधाकर्मादिदोषाषितैरशुद्धैर्वाऽपि आधाकर्मादिदोषयुक्तैर्वाऽपि अशनपानभेषजादिभिः कर्त्तव्यं प्रतिजागरणमिति शेषः।अयमर्थः-शुद्धरशुद्धश्च तैर्यावजीवं ते प्रतिजागरणीयाः साधुश्रावकलोकेनेति । सर्वस्यापि गच्छस्य तदधीनत्वाद्यथाशक्ति निरन्तरसूत्रार्थनिर्णयप्रवृतेश्च, तथा वृषभे-उपाध्यायादिके द्वादशवर्षाणि यावत्प्रतिजागरणा शुद्धैरशुद्धैश्च वस्तुभिर्विधेया । ततः परं शक्तौ भक्तविवेकः । एतावता कालेनान्यस्यापि गच्छभारोद्वहनसमर्थस्य वृषभस्योत्थानात् । तथाऽष्टादशमासान् ॥१८
शुबैराधाकर्मादि
। वसहे बारसवासा, बारमालयं कालं' इति त्रिंश
Jain Education Internal
For Private & Personel Use Only
lalww.jainelibrary.org