SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Jain Education यावत्सामान्यभिक्षोः-सामान्यसाधोः शुद्धेरशुद्धैश्व प्रतिजागरणा विधेया । ततः परमसाध्यतया शक्तौ सत्यां भक्तविवेकस्यैव कर्त्तुमुचितत्वात्, इदं शुद्धाशुद्धादिभिराचार्यादीनां परिपालनं रोगाद्यभिभूतवपुषां क्षेत्रकालादिपरिहाणिवश तो भक्ताद्यलाभवतां चविधेया, न पुनरेवमेव सुस्थावस्थायामिति । व्यवहारभाष्ये तु सर्वसामान्यग्लानप्रतिक्रिया व्यवस्थार्थमियं गाथा लिखि ताऽस्ति । यथा - छम्मासे आयरिश्रो, कुलं च संवत्सराइ तिमि भवे । संवत्सरं गणो खलु, जावज्जीवं भवे संघो ॥ १ ॥ श्रस्या व्याख्या - प्रथमत आचार्यः पण्मासान् यावच्चिकित्सां ग्लानस्य कारयति, तथाऽप्यप्रगुणीभूतं कुलस्य समर्पयति । ततः कुलं त्रीन् वत्सरान् यावच्चिकित्सकं भवति, तथाऽप्यप्रगुणीभवने कुलं गणस्य तं समर्पयति यावद्गणः खलु चिकित्सां कारयति, तथाऽप्यनिवर्त्तिते रोगे तं गणः सङ्घस्य समर्पयति । ततः सङ्घो यावज्जीवं प्रासुकप्रत्यवतारेण तदभावे चाप्रासुकेनापि यावज्जीवं चिकित्सको भवति । एतच्चोक्तं भक्तविवेकं कर्त्तुमशक्नुवतः । यः पुनर्भक्तविवेकं कर्त्तुं शक्नोति तेन प्रथमतोऽष्टादशमासान् चिकित्सा कारयितव्या । विरतिसहितस्य पुनः संसारे दुःप्रापत्वात् । तदनन्तरं चेत्प्रगुणीभवति ततः सुन्दरम् | अथ न भवति तर्हि भक्तविवेकः कर्त्तव्यः । इति श्रीप्रवचनसारोद्धार ।। १६६ पत्रे ॥ ६६ ॥ अथ तथाविधगीतार्थानां ग्लानादीनां पुनः पुनर्वस्त्रक्षालनमप्यनुज्ञातमेवेत्यक्षराणि लिख्यन्ते श्रायरियगिलायाणं, मलिणामलिणा पुणोवि धोविजा । मा हु गुरुण श्रवन्नो, लोगंभि अजीरणं इयरे ॥ ६८ ॥ वृत्तिर्यथा – श्रह - सर्वेपामपि वस्त्राणि वर्षाकालादर्वागेव प्रचान्यन्ते, किं वाऽस्ति केषाञ्चिद्विशेषः ? अस्तीति ब्रूमः । केषाम् ? इति भेदत आह-- आचार्याः - प्रवचनार्थव्याख्याधिकारिणः सद्धर्मदेशनादिगुणग्रामभूरयः सूरयः । आचार्यग्रहणमुपलचणं, For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy