SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ पाक्षिकचातुर्मासिकसांवत्सरिकाणि पक्षाद्यन्ते च स्युः । आह-पाक्षिकं चतुर्दश्यां पञ्चदश्यां वा चतुर्दश्यामिति ब्रूमः। यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात्पाक्षिकमपि षष्ठेन स्यात् । तथा च-"अट्ठमछट्ठचउत्थं, संवत्सरचाउमासपक्खेसु ।" इत्याद्यागमविरोधः। यत्र चतुर्दशी गृहीता न तत्र पाक्षिकं यत्र पाक्षिकं न तत्र चतुर्दशी । तथा हि-"अट्ठमी चउद्दसीसु उववासकरणं" इति पाक्षिकचूौँ । 'सो अ अट्ठमीचउद्दसीसु उववासं करेइ' इत्यावश्यकचूौँ । 'चउत्थछट्ठट्ठमकरणं अट्ठमीपक्खचउमासवरिसे य' त्ति व्यवहारभाष्यपीठे। अट्ठमी चउद्दसी नाणपंचमी चउमास' इत्यादि महानिशीथे । व्यवहारषष्ठोद्देशके च-" पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेयव्वं, इत्यादि व्याख्यायां वृत्तौ चूर्णौ पाक्षिकशब्देन चतुर्दश्येव व्याख्याता । तदेवं निश्चिनुमः पाक्षिकं चतुर्दश्यामेव । चातुर्मासिकसवत्सरिके तु पूर्व पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याचरणतः चतुर्दशीचतुर्योः क्रियते । प्रामाणिकं चैतत् , सर्वसम्मतत्वात् । उक्तं च कन्पभाष्यादौ-"असढेण समाइन्न, कत्थइ केणई असावजंन निवारिअमन्नेहि, बहुमणुमयमेयमायरियं ॥१॥" तीर्थोद्गारादावपि-“सालाहणेण रना, संघाएसेण कारिप्रो भयवं ? । पजोसवणचउत्थी, चाउम्मासं च चोदसिए ॥ १ ॥ चउमासपडिक्कमणं, पक्खिअदिवसंमि चउविहो संघो । नवसयतेणउएहिं, आयरणं तं पमाणंति ॥२॥" | अत्र चाधिकविशेषार्थिना पूज्यश्रीकुलमण्डनसूरिप्रणीतविचारामृतसङ्गाहोऽवगाहनीयः । इति श्राइविधौ पर्वकृत्याधिकारे ७६ पत्रे ॥ ५५ ॥ एतेनैव च ये पञ्चम्यां पर्युषणां कुर्वन्ति तेऽपि परास्ता द्रष्टव्याः। “नक्षत्रेषु समग्रेषु, भ्रष्टतेजस्सु भाखतः। यावदो For Private Personal Use Only in Education Intematon alww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy