SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ कठिना पृथ्वी शीतातपादिशस्त्रयोगे उपर्यङ्गुलमेकं प्रासुका, अल्पकठिना त्वङ्गुलचतुष्कं प्रासुका, अकठिनाऽङ्गुलाष्टकम् , वासोर्वी चाऽधिकापि प्रासुका, चतुष्पदादिस्थाने क्षात्रस्थाने च मुंडहस्तं प्रासुका, मलमूत्रातपोष्णांश्वादिना च यावती भाविता वह्विस्थाने च वह्निना यावती भाविता सा प्रासुका, महानगरस्थाने च हस्तमेकं प्रासुका, महानगरादिस्थानेऽपि | द्वादशवर्षशून्ये मलाघभावात्सर्वा सचित्ता चीरवृक्षाधश्च यत्र जन्तूनामसञ्चारः सदा छाया तत्र मिश्रा, दीरवृक्षाणां मधुरत्वेनाप्यायकत्वात् , क्षीरवृष्टिवातशीतादिभिः शस्त्रत्वाच्च । अन्यत्र तु जनासश्चारे छायाबहुले स्निग्धसजले उपरितनं रूपं रजो मुक्त्वा सर्वा सचिचा, कापि कापि मिश्रापि, कापि रजोऽपि सचित्तम् , यद्यतयश्चैत्ये शालायां (च) प्रवेशे पादौ रजोहरणेन प्रमार्जयन्ति तत्कापि प्रदेशे सचित्तं मिश्रं वा रजो भविष्यतीति हेतोः । तथा सचित्ता वा भूमिः सचित्तांबुयोगे जाते कियत्कालं मिश्रा स्यात्ततो या सचित्ता सा सचित्ता, या चाचित्ता साचित्चैवेति । दृषत्स्वप्येवं यथार्ह वाच्यम् । इति श्रीमेरुतुङ्गमरिकृतपिंडविशुद्धिवृत्तौ । ___ तथा, जस्स सचित्तरुक्खस्स हस्थिपयपमाणो पिडुलो खंधो तस्स सव्वनो जाव रयणिप्पमाणा ताव सचित्ता भूमी NI एयं आणासिद्धं ॥ इति श्रीनिशीथचूर्णौ ॥ ५२ ।। ___ अथ षष्ठारकादौ विषाग्निमेधैर्निर्बीजायां पृथिव्यां कृतायां पुनरप्याम्रादीनां यथोत्पत्तिर्भवति तथा लिख्यते खारम्माई पुक्खलसंवटुंता, जहा बहू मेहा । इय धम्मवीयहरणा, करणा य गुरूणमुवएसा ॥१॥ व्याख्या-यथा चाराम्लादयः पुष्करसंवादयश्च मेघा बीजहरणा बीजकरणाश्च स्युः । तत्र चारमेषाम्लमेघाग्निमेघविषमेघाशनिमेषा युगा Jain Education anal For Private & Personel Use Only T www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy