________________
विचार
रत्नाकर
॥१८५॥
विहारमुचितं मन्यन्ते ते उभयेऽपि सिद्धान्तबाह्या ज्ञेयाः । यथा
जत्थ य गोअम ! साहू, अजाहि समं पहंमि अट्टणा । अववाएणवि गच्छेज्जा, तत्थ गच्छमि का मेरा ॥१॥ इत्यत्र यद्यष्टोनैः साधुभिरपि सह साध्वीनां गमनं नानुज्ञातं तर्हि कथं गृहस्थैः सह एकाकिनीनां वा विहां कल्पते ? इति बोध्यम् । इति श्रीमहानिशीथपश्चमाध्ययने ।। ५१ ।। __ अथायं लोकः कीदृशाकारः १ कथं च व्यवस्थित इति विचारो लिख्यते
वेत्रासनसमोऽधस्तान्मध्यतो झन्चरीनिमः । अग्रे मुरजसङ्काशो, लोकः स्यादेवमाकृतिः ॥ १०५ ॥ वृत्तिर्यथा-अधस्तादधोभागे वेत्रासनमधस्ताद्विस्तीर्णमुपयुपरि सङ्कोचवत्तत्समस्तदाकारः। मध्यतो-मध्ये झल्लरीवाद्यविशेषस्तत्सदृशः। अग्रे मध्यलोकादुपरि मुरज ऊर्ध्वमधश्च सङ्कुचितो मध्यभागे विस्तृतो वाद्यविशेषस्तत्सदृशः । एवमधोमध्योर्वेषु आकारत्रययोगी लोकः । यदाहुः-तत्राधोमुखमन्जकसंस्थानं वर्णयन्त्यधोलोकम् , स्थालमिव तिर्यग्लोकम् , ऊर्ध्वमथमनकसमुद्गम् । इह चाधस्तिर्यगूर्वलोका रुचकापेक्षया । रुचकश्च मेरुमध्ये गोस्तनाकारचतुराकाशप्रदेशप्रमाणोऽधः, तादृश एवोद्धं, एवमष्टप्रदेशः। यदाहुः-" अट्ठ पएसो रुअगो, तिरियलोगस्स मज्झयारंमि । एस पहवो दिसाणं, एसेव भवे अणुदिसाणं ॥१॥" तत्र रुचकादध उपरि च नवयोजनशतानि तिर्यग्लोक इत्युत्सेधेऽष्टादशयोजनशतप्रमाण: । तिर्यग्लोकादधो नवयोजनशतोनसप्तरज्जुप्रमाणोऽधोलोकः । तत्र सप्तपृथिव्य उक्तरूपाः ॥ ४ ॥ इति योगशास्त्रचतुर्थप्रकाशे १०५ श्लोकवृत्तौ १८१ पत्रे ॥
अथ का भूमिः ? कियदधः सचित्ता ? इति विचारो लिख्यते
Jain Education Inter
For Private Personel Use Only
a
w.jainelibrary.org