________________
विचार
रत्नाकर
||१७२॥
टिकोन्मिश्रतीमनादिषु ग्रहणं भाज्य-विकल्पनीयं, ग्लानत्वादिप्रयोजनोत्पत्तो कार्य न शेषकालमिति भावः। तेषां च बहुलेपत्वात, गृद्धयादिदोषजनकत्वाच्च । अथ किं तत्रिकम् ? उच्यते--आहारः, उपधिः, शय्या । एतानि त्रीण्यापि गृहिणां शीतकालेऽप्युष्णानि भवन्ति, तेन तेषां तक्रादिग्रहणमन्तरेणापि बाह्याभ्यन्तरोष्णतापेनाहारो जीर्यते, तत्राभ्यन्तरे भोजनवशात्, बाह्यः शय्योपधिवशात् । एतान्येवाहारोपधिशय्यारूपाणि त्रीणि वस्तूनि यतीनां ग्रीष्मकालेऽपि शीतानि भवन्ति । तत्राहारस्य शीतता भिक्षाचर्यायां प्रविष्टस्य बहुगृहेषु स्तोकस्तोकलाभेन वृहद्वैलालगनात् । उपधेरेकवारं वर्षाकालादाग प्रक्षालनेन मलिनत्वात् । शय्यायास्तु प्रत्यासन्नाग्निकरणाभावेन तेन कारणेन ग्रीष्मकालेऽप्याहारादीनां शीतत्वसम्भवरूपेणोपहन्यते जाठरोऽग्निः । तस्माचारन्युपघातादजीर्णबुभुक्षामान्यादयो दोषा जायन्ते, ततस्तकादिग्रहणं साधूनामनुज्ञातम् । तक्रादिनाऽपि हि जाठरोऽग्निरुद्दीप्यते, तेषामपि तथास्वाभाव्यात् । इति श्रीयतिजीते ६१ गाथावृत्तौ ४६ पत्रे ॥५॥
अथाजातश्मश्रुणः शिष्यादेराचारप्रकल्पाध्ययनं पाठयितुं न कल्पते, इत्यभिप्रायो लिख्यते
नो कप्पइ निग्गंथाण वा निगंथीण वा खुड्डगस्स वा खुड्डियाए वा अवंजणजायस्स आयारपकप्पे नामं अज्झयणे उद्दिसित्तए । १ । कप्पइ निग्गंथाण वा निग्गंथीण वा खुड्डगस्स वा खुड्डियाए वा बंजणजायस्स आयारपकप्पे नामं अज्झयणे
उद्दिसित्तए।२।तिवासपरियागस्स समणस्स निग्गंथस्स कप्पति आयारपकप्पे नामं अज्ज्ञयणे उद्दिसित्तए।। इत्यादि, व्यवहारदश। मोद्देशकोक्तेन विधिना सूत्रं पाठनीयम् । इति गच्छाचारप्रकीर्णके 'विहिणा जो उ चोएइ' इति गाथा २४ वृत्तौ ॥ ६॥
परिशटितवस्त्रे यावन्ति थिग्गलानि ग्रन्थयश्च कम्पन्ते तल्लिख्यते
॥१७२।।
Jain Education
For Private & Personel Use Only
www.jainelibrary.org