________________
सर्वकालं क्षपणमेव कुर्वतः साधोश्चिरकालभावितपोनियमसंयमानां हानिर्भवति, तस्माद्यावजीवक्षपणं न कार्यम् , पुनः प्राहयदि सर्वकालं क्षपणं कर्तुमशक्तस्तहि षण्मासक्षपणं कृत्वा पारणकमलेपकृता विधत्ताम् । गुरुराह-यद्येवं तपः कुर्वन् संयमयोगान् कत्तुं शक्नोति तर्हि करोतु, न कोपि तस्य निषेधः । पुनरप्याह-यदि षण्मासक्षपणं कर्तुं न शक्नोति तर्हि एकदिनोनं षण्मासक्षपणं कृत्वा श्राचाम्लेन पारयतु, एवमेकैकेन(कया) दिनहान्या तावदात्मानं तोलयेद्यावच्चतुर्थ कृत्वा आचाम्लेन पारणं करोतु, एवमप्यसामर्थे दिवसे दिवसे गृहीत्वाचाम्लनिर्लेपम् । गुरुराह-करोत्वेवं तपः, यदि प्रत्युपेक्षणादिसंयमयोगभ्रंशो न भवति, केवलं सम्प्रति सेवार्त्तसंहनानां नास्ति तादृशी शक्तिरिति न तथोपदेशो विधीयते । पुनः परः प्राह-ननु महाराष्ट्रकोशलदेशोद्भवाः सदैव सौवीरकूरमात्रभोजिनः सैवार्त्तसंहननास्ततो यदि तेऽपीत्थं यापयन्ति यावजीवं तर्हि तथा सौरिकूरमात्रभोजनेन किं न यतयो मोक्षगमनैकबद्धकक्षा यापयन्ति ? तैः सुतरामेव यापनीयम् , प्रभूतगुणसम्भवात् । गुरुराह--तिअसीअं समणाणं, तिअमुण्ह गिहीण तेणगुन्नायं ! तत्काईणं गहणं, कट्टरमाईसु भइयव्यं ॥ १॥ त्रिकं वस्तुत्रयं श्रमणानां शीतं भवति, तेन प्रतिदिवसमाचाम्लकरणे तक्राद्यभावत आहारपाकासम्भवेनाजीर्णादयो दोषाः प्रादुष्यन्ति । तदेव त्रिकमुष्णं गृहिणाम् , तेन सौवीरकूरमात्रभोजनेऽपि तेषामाहारपाकमावतो नाजीर्णादिदोषा जायन्ते, ततस्तेषां तथा यापयतामपि न क|श्चिद्दोषः । साधूनां तूक्तनीत्या दोषस्तेन कारणेन तक्रादिग्रहणं साधूनामनुज्ञातम् । इह प्रायो यतिना विकृतिपरिभोगपरित्यागेन सदैवात्मशरीरं यापनीयं कदाचिदेव च शरीरस्यापाटवे संयमयोगवृद्धिनिमित्तबलाधानाय विकृतिपरिभोगः । तथा चोक्तं सूत्रे--'अभिक्स्वणं निविगइगया य'त्ति । निर्विकृतिपरिभोगे व तक्रायेवोपयोगीति तक्रादिग्रहणम् । कदुरादिपु-घृतव
महारपाकासम्मकमाईस भइयच अभूतगुणसः
Jain Educat
i onal
For Private & Personel Use Only
www.jainelibrary.org