SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter कृत्वा कल्पं प्रावृत्य पात्राण्यन्यस्य समर्प्य तादृशवेषो वसतावानीयते । यथाऽनाख्यातोऽपि राजादिभिर्ज्ञायते, एष आचार्य इति । ततो वसतिं प्राप्तस्य पादप्रोञ्छनं पादप्रमार्जनार्थमादाय साघव उपतिष्ठन्ति । पादप्रमार्जनानन्तरं वसतेरन्तः प्रविश्य पूर्वरचितायां निषद्यायामुपविशति । उपविष्टस्य चरणकल्पकरणाय कोऽपि साधुरुपढौकते । चरणप्रचालनानन्तरं च सर्वे साधवः पुरतः पार्श्वतः पृष्ठतो वा किङ्करभूतास्तिष्ठन्ति । यथा राजा चकितस्तिष्ठति । इति श्रीव्यवहारभाष्यवृत्तौ षष्ठोदेशके ६५६ प्रतौ ४४६ पत्रे ॥ ७ ॥ न केवलं वैयावृत्त्य करेणैवाहारादिना गुरोर्भक्तिः कार्या, किंत्वन्येन गीतार्थेनापि स्वयमाहृताहारादिना गुरोर्भक्तिः कर्त्तव्येत्यभिप्राय लिख्यते दव्वे भावे भत्ती, दुब्वे गणिगाउ दूति जाराणं । मावंमि सीसवग्गो, करेइ भत्तिं सुधरस्स || ( १ ॥ ) श्राचार्यस्य भक्तौ क्रियमाणायां तीर्थस्याव्यवच्छेदः, भक्तावक्रियमाणायां तु तीर्थव्यवच्छेदः । सा च भक्तिर्द्विधा-द्रव्ये भावे च तत्र | नामगणिका भुजङ्गानां भक्तिं कुर्वन्ति दूतयो वा जारायां, सा द्रव्ये द्रव्यभक्तिः, भावे भावविषया भक्तिः पुनरियं यच्छिष्यवर्गः श्रुतधरस्य भक्तिं करोति । यद्यपि चान्योजी गुरोर्भक्तिं करोति तथाऽपि ममापि निर्जरा स्यादित्यात्मानुग्रहबुद्ध्याऽन्येनापि भक्तिः कर्त्तव्येति । लौहार्यगौतमदृष्टान्तेन भावयति-जवि य लोहसनामो, गिण्es खीणंतराइयो उछं । तहवि य गोसम - सामी, पारण गेहए गुरुणो ॥ ( २ ॥ ) यद्यपि च लोहसनामो लोहार्यः चीणांतरायस्य भगवतो वर्द्धमानस्वामिनः सदैवोच्छं - एषणीयभक्तादिकं गृह्णाति, तस्य भगवद्वैयावृत्र्यकरत्वात् । यतः “ धन्नो सो लोहजो, खंतिखमो पवरलोहस रिवनो । For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy