________________
विचार॥१६॥
| रितमनुपयोगमावादतः पुनरप्यालोचय, एवं त्रिष्वपि वारेषु यदि सदृशार्थमालोचितं ततो ज्ञातव्यमेषोऽप्रतिकुश्चोऽमायावी, अथ | रत्नाकर विसदृशं तर्हि ज्ञातव्यमेष परिणामतः कुश्ची कुटिलो मायावी, अथैकं द्वौ वा वारावालोचनादापनेन मायावी किं नोपलभ्यते । येन त्रीन् वारानित्युक्तं उच्यते-उपलभ्यते परं स्फुटतरोपलब्धिनिमित्तं त्रीन् वारानालोचाप्यते, तस्यापि च प्रत्ययो भवति यथाऽहं विसदृशभणनेन मायावी लक्षितः ततो मायानिष्पन्नं मासगुरुप्रायश्चित्तं पूर्व दातव्यं तदनन्तरमपराधनिमित्तं प्रायश्चित्तमिति । अत्रैवार्थे दृष्टान्तमाह-तिनि उवारा जह दंडियस्स, पलिउंचियंमि अस्सुवमा । सुद्धस्स होइ मासो, पलिउंचिइ तं चिमं चमं ॥१८॥ दंडिको नाम करणपतिस्तस्य यथाऽन्यायपीडितं करणमुपस्थितं किं मायाव्येषोऽमायावी वेति परिज्ञानाय त्रीन वारानपन्यायमुच्चारयितुमाभियोगः । एवं श्रुतव्यवहारिणोऽपि अतीचारशल्यपीडितं प्रायश्चित्तव्यवहारार्थमुपस्थितं एष प्रतिकुश्वनापरो न वेति परिज्ञानार्थ त्रीन् वारानुच्चारयितुं संरम्भः, ततो यदा श्रुतव्यवहारिभित्रिःकृत्व आलोचनाप्रदापनेनागमव्यवहारिभिः प्रथमवेलायामागमबलेन तस्य प्रतिकुश्चितकौटिन्यं ज्ञातं भवति तदा तस्मिन् प्रतिकुश्चिते ज्ञाते अश्वोपमा-अश्वदृष्टान्तः क्रियते यथा आर्य! शृणु तावदिदमुदाहरणम्-जहा कस्सवि रन्नो एगो अस्सो सव्वलक्खणसंजुत्तो धावणपवणसमत्थो, तस्स आसस्स गुणेणं अजेयो, सो राया सव्वे सामंतराइणो आणवेइ, ताहे सामंतराइणो अप्पप्पणो सभासु भणंति नत्थि कोइ एरिसो पुरिसो जो तं हरिता आणेइ, सव्वेहिं भणियं सो पुरिसपंजरत्थो चिट्ठइ गच्छए वा न सक्का हरिउं, एगस्स रखो एगेण पुरिसेण भणियं-जइ सो मारेयब्वो तो मारेमि, ताहे रन्ना भणियं मा अम्हं तस्स वा भवउ पाएहत्ति, ततो सो तत्थ गो, तेणछन्नपदे|सं ठिएण लक्षणाया ईषिकाया अग्रभागे क्षुद्रकंटकं प्रोतं कृत्वा दिकरुयधणुएण मिल्लेइ तेण आसो विद्धो, ईषिका अश्वमाहत्य ॥१६ ॥
Jain Education Intern
For Private
Personel Use Only
www.jainelibrary.org