________________
जानन्तीति । पझुढे पडिसारण, अप्पडिवजंतयं न खलु सारे । जइ पडिवजइ सारे, दुविहतियारंपि पच्चक्खी ॥ १६ ॥ प्रत्यक्षी-प्रत्यक्षज्ञानी अागमव्यवहारीत्यर्थः द्विविधमपि मूलगुणविषयमुत्तरगुणविषयं चातिचारमालोचयंतो यत्किमपि
आलोचनीयम् । 'पाढे 'त्ति विस्मृतं भवति ततस्तस्मिन् विस्मृते प्रतिसारणं करोति, यथाऽमुकं तवालोचनीयं विस्मृतमिति तदप्यालोचयति, केवलं यदि केवलज्ञानादिवलेनैतजानाति यथेष भणितः सन् शुद्धभावत्वात्सम्यक् प्रतिपद्यते । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति वचनतो भविष्यति वर्तमानाभिधानात्प्रतिपत्स्यते इति तदास्मारयति, यदि पुनरेतदवगच्छति यथैष भणितोऽपि सन्न सम्यग् प्रतिपत्स्यते इति, तदा तमप्रतिपद्यमानं-अप्रतिपत्स्यमानं न खलु नैव सारयति, निष्फलत्वात् । अमूढलक्षो हि भगवानागमव्यवहारी, अत एव दत्तायामप्यालोचनायां यद्यालोचकः सम्यगावृत्तो ज्ञातस्ततस्तस्मै प्रायश्चित्तं प्रयच्छति अथ न प्रत्यावृत्त-स्ततो न प्रयच्छतीति । श्रुतव्यवहारिणः प्राह-कप्पपकप्पी उ सुए आलोयाति ते उ तिक्खुत्तो । सरिसत्थमपलिउंची, विसरिसपरिणामतो कुंची ॥ १७ ॥ कल्पग्रहणेन दशाश्रुतस्कन्धकल्पव्यवहारा गृहीताः प्रकल्पग्रहणेन निशीथः कल्पश्च प्रकल्पश्च कल्पप्रकल्पं तदेषामस्तीति कल्पप्रकल्पिनः, दशाकल्पव्यवहारादिसूत्रार्थधराः, तुशब्दत्वात् महाकल्पश्रुतमहानिशीथनियुक्तिनिशीथपीठिकाधराश्च श्रुते श्रुतव्यवहारिणः प्रोच्यन्ते । तथाऽऽलोचकं त्रिःकृत्वस्त्रीन् वारानालोचापयन्ति, ते ह्येकं द्वौ वा वारावालोचिते अनेन प्रतिकुश्चनयाऽऽलोचितमप्रतिकुञ्चनया वेति विशेष नावबुध्यते, ततस्त्रीन् वारानालोचापयन्ति । कथम् ? इति चेत् , उच्यते-प्रथमवेलायां निद्रायमाण इव शृणोति, ततो ब्रूते निद्राप्रमादं गतवानहमिति न किमप्यश्रौषमतो भूयोऽप्यालोचय, द्वितीयवारमालोचिते भणति न सुष्टु मयाऽवधा
For Private Personal Use Only
T
Jain Education Interi
ww.jainelibrary.org