________________
विचार
रत्नाकर
॥१६२॥
।
14
चयात ताधिः , तथा दुष्करकरण-दाम तथा अतीचारपकमलिनस्यात्मवित
चित्तस्य मलयगिरिपवनसम्पर्केणेवालोचनाप्रदानेनातीचारधर्मापगमो भवति संविग्नानां महामुनीनां परमः प्रमोद इति,
तथा 'अप्पपरनियत्ति' आलोचनाप्रदानतः स्वयमात्मनो दोषेभ्यो निवृतिः कृता, तं च दृष्ट्वाऽप्यन्ये आलोचनाभिमुखा | भवन्तीत्यन्येषामपि दोषेभ्यो निवर्त्तनमिति, तथा यदतीचारजातं प्रतिसेवितं तत्परस्सै प्रकटयतामात्मन आर्जवं सम्यग्वि
भावितं भवति, आर्जवं नामामायाविता, तथा अतीचारपङ्कमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजलेनातीचारपङ्कप्रक्षालनतो निर्मलताशोधिः, तथा दुष्करकरणं-दुष्करकारिता तथा हि-यत्प्रतिसेवनं तन्न दुष्कर, अनादिभवाभ्यस्तत्वात्, यत्पुनरालोचयति तद्दष्कर, प्रबलमोक्षानुयायित्रीर्योल्लासविशेषेणैव तस्य कर्तुं शक्यत्वात तथा 'विणउ' ति आलोचयता चारित्रविनयः सम्यगुपपादितो भवति । निस्सल्लत्तं' ति सशल्य आत्मा निःशन्यः कृतो भवतीति निःशन्यता, एते शोधिगुणा:आलोचनागुणाः, आलोचनाशोधिरित्यनर्थान्तरत्वम् । अथ कस्य समीपे आलोचना दातव्या ? उच्यते-आगमध्यवहारिणः श्रुतव्यवहारिणो वा । तथा चाह-आगमसुअववहारी, आगमत्रो छव्विहो उ ववहारो । केवलिमणोहिचोद्दसदसनवपुत्री उ नायव्वो ॥१५॥ 'आगमसुयववहारी' त्ति व्यवहारिशब्दः प्रत्येकमभिसम्बध्यते आलोचना) द्विविधः, तद्यथा-आगमव्यवहारी श्रुतव्यवहारी च, तत्रागमतो व्यवहारी षड्विधः, तद्यथा--केवली-केवलज्ञानी, 'मणोहि' त्ति पदैकदेशे पदसमुदायोपचारान्मनःपर्यायज्ञानी अवधिज्ञानी च, 'चोद्दसदसनवपुची' ति पूर्वशष्दः प्रत्येकमभिसम्बध्यते चतुर्दशपूर्वी दशपूर्वी नवपूर्वी च ज्ञातव्याः, एते च आगमव्यवहारिणः-प्रत्यक्षज्ञानिन उच्यन्ते चतुर्दशादिपूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात् । तथा हि-येन यथा योऽतिचारः, कृतस्तं तथा सर्वमेते
धिरित्यनर्थान्तरवसाय आत्मा निःशन्या का विणउ ' त्ति मालाच
॥१२॥
Jain Education
na
For Private & Personel Use Only
www.jainelibrary.org