________________
उत्तराभिमुखोऽवतिष्ठते, यद्याचार्य उत्तराभिमुखो निषष्मस्तत आलोचको वामपार्श्वे पूर्वाभिमुखस्तिष्ठति, चरन्तीं वा दिशं प्रत्यभिमुखो भवति, ततः कृतिकर्म- द्वादशावर्त्तवन्दनकं कृत्वा प्रबद्धोऽञ्जलिर्येन स प्रबद्धाञ्जलिः उत्सर्गत उत्कटुकस्थितः समालोचयेत्, यदि पुनर्बहुप्रति सेवितमस्तीति चिरेणालोचना परिसमाप्तिं यास्यति तावन्तं च कालमुत्कुटुकः स्थातुं न शक्नोति, यदिवा अर्शोरोगवत उत्कुटुकस्य सतोऽशांसि चोभमुपयान्ति ततो बहुप्रतिसेवी अर्शःसु च सत्सु गुरुमनुज्ञाप्य निषद्यायामौपग्रहिकपादप्रोछने वा अन्यस्मिन् वा यथार्हे आसने स्थित मालोचयति । किं पुनस्तदालोचनीयमुच्यते-चतुर्विधं द्रव्यादि, तथा चाह— चेयण मचित्तदव्वं, जणवयमद्वारा होति खित्तंमि । दिणनिसि सुभिक्खदुब्भिक्खकाले भावंमि हिट्टियरे ॥ १२ ॥ द्रव्यतश्चेतनं- सचित्तमुपलक्षणमेतत्, मिश्रं वा, अचित्तं श्रचेतनं वा, अकल्पिकं यत्प्रतिसेवितं क्षेत्रतो जनपदे ध्वनि वा कालो दिने निशि वा यदिवा सुभिक्षे दुर्भिक्षे वा भावे ' हिडियरे ' सप्तमी तृतीयार्थे दृष्टेन इतरेण वा ग्लानेन सता यतनयाऽयतनया वा दर्पतः कल्पतो वा, तदालोचयति । कथम् १ इत्याह-जह बालो जंपतो, कामकर्ज च उज्जुनं भणइ । तं तह आलोएञ्जा, मायामयविष्पमुको उ ॥ १३ ॥ यथा बालो मातुः पितुर्वा पुरतो जल्पन् कार्यमकार्य च ऋजुकं - अकुटिलं भणति तथा आलोचकोऽपि मायामदविप्रमुक्तः सन् तदालोचनीयं यथा ऋजुकभावेनालोचयेत् । आलोचनाया मे गुणाः - लहुयाहादीजणणं, अप्पपरनियति मजवं सोही । दुक्करकरणं विणओ, निस्सलत्तं च सोहिगुणा ॥ १४ ॥ घोर्भावो लघुता, यथा भारवाही अपहृतभारो लघुर्भवति तथा आलोचकोऽप्युद्धृतशल्यो लघुर्भवति इति लघुता, तथाह्रादनं, हादिरोणादिक इप्रत्ययः प्रह्वत्तिस्तस्य जननं उत्पत्तिर्द्धादिजननं प्रमोदोत्पाद इति यावत्, तथा हातीचारघर्मो पततस्य
Jain Education national
For Private & Personal Use Only
www.jainelibrary.org