________________
रत्ना
॥१६॥
प्रदक्षिणावर्तमुदकं यत्र नद्या पद्मसरसि वा तत्प्रदक्षिणावर्तोदकं तसिन् वा चशब्दो वाशब्दार्थः कचिद्वाशब्दस्यैव पाठः, प्रशस्तं कालमाह-उत्तदिणसेसकाले, उच्चट्ठाणा गहा य भावंमि । पुवदिसउत्तरा वा, चरंतिया जाव नवपुब्बी॥ १० ॥ उक्तानि यानि दिनानि अष्टम्यादीनि, तेभ्यो ये शेषा द्वितीयादयो दिवसास्ते स च कालश्च उक्तदिनशेषकालस्तस्मिन् प्रशस्ते व्यतिपातादिदोषवर्जिते, उपलक्षणमेतत्, प्रशस्ते च करणे प्रशस्ते मुहूर्ते, एतत् कालतः प्रशस्तमुक्तम्, | भावतः प्रशस्तमाह-उच्चैःस्थानं येषां ते उच्चैःस्थाना ग्रहा भावे भावविषये प्रशस्तम्, किमुक्तं भवति ? भावत उच्चैःस्थानगतेषु ग्रहेषु, तत्र ग्रहाणामुच्चैःस्थानमेवम्-सूर्यस्य मेष उच्चैःस्थानम्, सोमस्य वृषः, मङ्गलस्य मकरः, बुधस्य कन्या, बृहस्पतेः कर्कटः, शुक्रस्य मीनः, शनेश्च तुला, सर्वेषामपि च ग्रहाणामात्मीयादुच्चैःस्थानाद्यत्सप्तमस्थानं तन्नीःस्थानम् । अथवा भावतः प्रशस्ता ये सोमबहा बुधशुक्रबृहस्पतिशशिनः, एतेषां सम्बन्धिषु राशिषु, एतैरवलोकितेषु च लगेषु आलोचयेत् । तथा तिस्रो दिशः प्रशस्ता प्रायाः, तद्यथा-पूर्वा उत्तरा चरंती, चरन्ती नाम यस्यां स भगवानहन् विहरति, सामान्यतः केवलज्ञानी, मनःपर्यायज्ञानी, अवधिज्ञानी, चतुर्दशपूर्वी, त्रयोदशपूर्वी यावत्रवपूर्वी, यदिवा यो यस्मिन् युगप्रधानः आचार्यः स वा यया विहरति, एतासां तिमृणामन्यतमस्या दिशोऽभिमुखं आलो चना)ऽवतिष्ठते । तस्येयं सामाचारी-निसज्जऽसति पडिहारिय, किइकम्मं काउ पंजलुक्कुडुओ । बहुपडिसेवरिसासु य, अणुप्मवेळ निसिजगतो ॥ ११ ॥ आत्मीयकन्पैरपरिभुक्तैराचार्यस्य निषद्यां करोति, असति-आत्मीयकन्पानामभावेऽन्यस्य | | सक्तान् प्रातिहारिकान् कन्पान् गृहीत्वा करोति, कृत्वा च यद्याचार्यः पूर्वाभिमुखो निषीदति तत आलोचको दक्षिणत
॥१६॥
Jain Education int
o nal
For Private & Personel Use Only
www.jainelibrary.org