________________
ब्रुवते यत्र रविस्तिष्ठति तस्माच्चतुर्दशं पञ्चदशं वा नक्षत्रं सन्ध्यागतम्, रविगतं यत्र रविस्तिष्ठति, पूर्वद्वारिके नक्षत्रे पूर्वदिशागन्तव्ये यदा अपरया दिशा गच्छति तदा तद्विद्वारं - विगतद्वारमित्यर्थः, यत्क्रूरग्रहेणाक्रान्तं तत्सग्रहम्, विलम्बि - यत्सूर्येण परिभुज्य मुक्तम्, अन्ये त्वाहुः सूर्यस्य पृष्ठतोऽग्रतो वाऽनन्तरं नक्षत्रं सन्ध्यागतम्, यत्पुनः सूरगताच चत्रात्पृष्टतस्तृतीयं तद्विलम्बि इति । राहुतं यत्र सूर्यस्य चन्द्रस्य वा ग्रहणम्, यस्य मध्येन ग्रहोऽगमत् तद्ग्रहभिनम् एतानि ससनक्षत्राणि चन्द्रयोगयुक्तानि वर्जयेत् । यत एतेष्विमे दोषाः संज्ज्ञागयंमि कलहो, होइ कुमत्तं विलंबिनक्खते । विढेरे परविजयो, आइचगए अनिव्वाणी ||७|| जं सग्गहंमि कीरइ, नक्खते तत्थ बुग्गहो होइ । राहुहयंमिश्र मरणं, गहभिने सोखिउगालो ॥ ८ ॥ सन्ध्यागते नक्षत्रे शुभेषु प्रयोजनेषु प्रारभ्यमाणेषु कलहो - राटिर्भवति, विलम्बिनक्षत्रे कुभक्तम्, विद्वारे परेषां शत्रूणां विजयः, आदित्यगते - रविगते अनिर्वाणिः - असुखम्, सग्रहे पुनर्नक्षत्रे यत्क्रियते तत्र व्युद्ग्रहः सङ्ग्रामो भवति, राहुहते मरणम्, ग्रहभिने शोणितोद्गारः – शोणितविनिर्गमः, एवंभूतेष्व प्रशस्त द्रव्य क्षेत्र काल भावेषु नालोचयेत् किं तु प्रशस्तेषु । तत्र प्रशस्ते द्रव्ये शान्यादिप्रशस्तधान्यराशिषु मणिकनकमौक्तिकवज्रवैडूर्यपद्मरागादिराशिषु च । प्रशस्तं क्षेत्रं साचादाह-तप्पडिवक्खे खेते, उच्छुवणे सालिचेइयघरे वा । गंभीरसाणुखाए, पयाहिणाबत उदए य ॥ ६ ॥ तस्य प्रागुक्तस्याप्रशस्तस्य क्षेत्रस्य प्रतिपक्षे प्रशस्ते क्षेत्रे इचुवने, उपलक्षणमेतत्, आरामे वा पत्रपुष्पफलोपेते 'सालि 'त्ति, वनशब्दोऽत्रापि सम्बध्यते, शालिवने चैत्यगृहे वा, वाशब्दो विकल्पने तथा गम्भीरे गम्भीरं नाम भग्नत्वादिदोषवर्जितम् शेषजनेन च प्रायेणालक्षणीयमध्यभागं स्थानं गम्भीरमिति वचनात् सानुनादे यत्रोच्चारिते शब्दे प्रतिशब्दः समन्तादुत्तिष्ठति तत्सानुनादम्,
Jain Education International
For Private & Personal Use Only
Liwww.jainelibrary.org