SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ विचार।।१६०॥ अमनोज्ञधान्यराशयोऽमनोज्ञद्रुमाश्च भवन्ति द्रव्ये द्रष्टव्याः, भग्नगृहं प्रागुक्तस्वरूपम् । ' रुद्द 'त्ति रुद्रगृहं ' ऊसर 'त्ति उपरं यत्र तृणादिकं नोद्गच्छति, छिन्नटङ्का-तटीप्रपातः, भृगुप्रपातादिकं वा दग्धं - दवदग्धं, आदिशब्दाद्विद्युद्दग्धादिपरिग्रहः । इत्यादि सर्व क्षेत्रं द्रष्टव्यम्, तत्र यत् ' अमणुमदुमा य होंति दव्वंमि इत्युक्तं तदेतद्व्याख्यानयति — निष्पत्त कंटले, विज्जुहते खारकडुयदड्डेय । श्रयतउयतंबसीसग, दब्वे धपाय अमला || ( ४ || ) निष्पत्राः - स्वभावतः पत्ररहिताः करीरादयः, कंटकिनो - बदरीबब्बूलप्रभृतयः, विद्युद्धता - विद्युत्प्रपातभग्नाः, चाररसा - मोरडप्रभृतयः कटुकाः- कटुकरसा रोहिणी कुटजनिम्बादयः, दग्धा- दवदग्धाः, एतान् द्रुमान् मनोज्ञान् जानीहीति वाक्यशेषः । न केवलममनोज्ञा धान्यराशयो मनोज्ञा द्रुमाश्च द्रव्ये वर्जनीयाः, किं तु अस्त्रपुताम्रसीसकराशयो द्रव्ये वर्जनीयाः । ' अमरणुन्नवन्नरासी 'त्ति व्याख्यानयति - मनोज्ञानि धान्यानि पुनः चशब्दः पुनरर्थे श्रमनोज्ञधान्यराशयः । सम्प्रति कालतो ये दिवसा वर्जनीयास्तानेवाहपडिकुल्लगदिवसे, बजेज अट्ठमिं च नवमिं च । छद्धिं च चउत्थि, बारसिं च दोरंहपि पक्खाणं ॥ ( ५11 ) इह इल्लप्रत्ययः प्राकृते स्वार्थे, प्रतिकुष्टा एवं प्रतिकुष्टेल्लकाः, ते च ते दिवसाच प्रतिकुष्टेल्लकदिवसाः - प्रतिषिद्धा दिवसास्तान् वर्जयेत्, तानेव नामत आह--द्वयोरपि शुक्लकृष्णरूपयोः पक्षयोरष्टमी नवमीं षष्ठीं चतुर्थी द्वादशीं च, एता हि तिथयः शुभप्रयोजनेषु सर्वेवपि स्वभावत एव प्रतिकूलास्ततो वर्जनीयाः, इदं कालतोऽप्रशस्तं वर्ज्यम् । सन्ध्यागतादिनचत्रं तदेवाह - संज्झागयं १ रविग, २ विरं ३ सग्गहं ४ विलंबिं ५ च । राहुइयं ६ गहभिन्नं ७, वज्जेज सत्तनक्खते ॥ ६ ॥ सन्ध्यागतं नाम यत्र नक्षत्रे सूर्योऽनन्तरं स्थास्यति तत् आदित्यपृष्टस्थितम्, अन्ये पुना राहुर्यस्मिन्नुदिते सूर्य उदेति तत् सन्ध्यागतम्, अपरे त्वेवं Jain Education Intional For Private & Personal Use Only रत्नाकरः ॥ १६०॥ www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy