________________
पसत्थंमि' तदिदानी व्यारव्यानयति
दव्वादिचउरभिग्गह, पसत्थमपसत्थ ते दुहेक्केका । अपसत्थे वजेउं, पसत्थएहिं तु आलोए ॥१॥ अपराधालोचनायां | दीयमानायां विधिर्वक्तव्यः, तत्र यदुक्तमधस्तात् द्रव्यादयो द्रव्यक्षेत्रकालभावाश्चत्वारश्चतुःसङ्ख्थाका अपेक्षणीया भवन्ति । | तथा 'अभिग्गह 'त्ति दिशामभिग्रहः कर्त्तव्यः । ते च द्रव्यादयो दिशश्चैकैके प्रत्येक द्विधा द्विप्रकाराः, तद्यथा-प्रशस्ताः
अप्रशस्ताश्च, तत्राप्रशस्तान् द्रव्यादीन् अप्रशस्तांश्च दिशो वजेयित्वा प्रशस्तैर्द्रव्यादिभिर्दिग्विशेषैश्च, किमुक्तं भवति ? प्रशस्तेषु द्रव्यादिषु प्रशस्ताश्च दिशोऽभिगृह्यालोचयेत्-आलोचनां दद्यात् ॥ तत्राप्रशस्तद्रव्यादिप्रतिपादनार्थमाह-भग्गघरे कुडेसु अ, रासीसु य जे दुमा य भ्रमणुमा। तत्थ न आलोएजा, तप्पडिवक्खे दिसा तिनि॥ (२॥) यत्र स्तम्भकुम्भकुड्या-1 दीनामन्यतमत्किमपि पतितं तद् भग्नगृहं तत्र, तथा ' कुड्डेसु 'त्ति कुड्यग्रहणात् कुड्यमात्राविशेषे । तत्र पाठान्तरम्-'रुद्देसु । य'त्ति, तत्र रुद्रेषु-रुद्रगृहेषु, तथाराशिषु-अमनोज्ञतिलमाषकोद्रवादिधान्यराशिषु, ये च दुमा अमनोज्ञाः-निष्पत्रकंटकीप्रभृतयोऽमनोज्ञाः, तत्र तेष्वप्याश्रयभूतेषु, उपलक्षणमेतत् अप्रशस्तासु तिथिषु, अप्रशस्तेषु च सन्ध्यागतादिषु नक्षत्रेषु अप्रशस्ताश्च याम्यादीर्दिशोऽभिगृह्य नालोचयेत् , किं तु तत्प्रतिपक्षे प्रशस्तद्रव्यादिरूपे पालोचयेत्। + +
+ +
+ तथा प्रशस्ताश्च तिस्रो दिशः पूर्वामुत्तरां चरन्तीं चाभिगृह्य आलोचयेत् । इदानीममनोज्ञधान्यराश्यादिषु द्रव्यादित्वयोजनामाह-अमणुमधमरासी, अमणुमदुमा य होति दध्वंमि । भग्गधररुद्दऊसर, पवा य दहाइ खित्तमि ॥ (३॥)
Jain Education intematona
For Private & Personel Use Only
www.jainelibrary.org