________________
ट चोपविष्ठा भुञ्जते । ‘एको 'त्ति । एकः क्षुल्लकादिः कमढकानां कम्पं करोति । इति श्रीबृहत्कन्पतृतीयखंडे २४ पत्रे ॥४॥ | ___कदाचिदज्ञानात्स्त्यानर्द्धिनिद्रावति दीक्षिते सति यो विधिः स लिख्यते
केसवप्रबलं पनवेति मुअ लिंग णत्थि तुह चरणं । णेच्छस्स हरइ संघो, णवि एको मा पदोसं तु ॥ १॥ केशवोवासुदेवस्तस्य बलाद बलं स्त्यानर्द्धिमतो भवतीति तीर्थकृदादयः प्रज्ञापयन्ति, एतच्च प्रथमसंहनिनमङ्गीकृत्योक्तम, इदानीं पुनः सामान्यलोकबलाद्विगुणं त्रिगुणं चतुर्गुणं वा बलं भवतीति मन्तव्यम् । यत एवमतः स प्रज्ञापनीयः सौम्य ! मुश्च लिङ्गं नास्ति तव चरणं-चारित्रम् , यद्येवं गुरुणा सानुनयं भणितो मुश्चति ततः शोभनमथ न मुञ्चति ततो मोक्तुमनिN| च्छतः, ततः सकाशात्सङ्घः समुदितः 'से' तस्य लिङ्गं हरति-उद्दालयति, न पुनरेकः । कुतः ? इत्याह-मा तस्यैकस्योपरि
प्रद्वेषं गच्छेत् , प्रद्विष्टश्च व्यापादनमपि कुर्यात् । लिङ्गापहारनियमार्थमिदमाह-अवि केवलमुप्पाडे, ण य लिङ्ग देइ अणतिसेसी से । देसवय दंसणं वा, गिण्ह अणिच्छे पलायन्ति ॥२॥ अपिः-सम्भावने, स चैतत्सम्भावयति । यद्यपि तेनैव भवग्रहणेन केवलमुत्पादयति तथापि 'से' तस्य स्त्यानर्द्धिमतो लिङ्गमनतिशयी न ददाति, यः पुनरतिशयज्ञानी स जानाति न भूय एतस्य स्त्यानर्द्धिनिद्रोदयो भविष्यति ततो लिङ्गं ददाति इतरथा न ददाति, लिङ्गापहारे पुनः क्रियमाणेऽयमुपदेशो दीयते, देशव्रतानि-स्थूलप्राणातिपातविरमणादीनि गृहाण, तानि चेत्प्रतिपत्तुं न समर्थस्ततो दर्शन-सम्यक्त्वं | गृहाण । अथैवमप्यनुनीयमानो यदि लिङ्गं मोक्तुं नेच्छति तदा रात्रौ तं सुप्तं मुक्त्वा पलायन्ते-देशान्तरं गच्छन्ति । इति श्रीवृहत्कल्पभाष्यवृत्तौ तृतीयखंडे ४० पत्रे ॥५॥
Jain Education Interna
For Private & Personel Use Only
Hrww.jainelibrary.org