SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ P विचार रत्नाकर ॥१५८|| लोको मिलति । तांश्च स्तेनान् मैथुनार्थिन उपद्रवतो दंडकैः प्रताडयन्ति । अथ तत्र वृषभाः सन्निहिता भवन्ति । ततस्ते गृहिण इव भूत्वा तान् वारयन्ति । इति श्री बृहत्कल्पसूत्रवृत्तौ द्वितीयखंडे २७ पत्रे ॥२॥ ज्ञानदर्शनादिकं कश्चिद्गुणं प्रेक्ष्य पार्श्वस्थादिपुरुषवन्दनेऽपि न दोष इत्यभिप्रायो लिख्यते दंसणनाणचरितं, तवविणयं जत्थ जत्तियं जाणे । जिणपन्नत्तं भत्तीइ, पूअए तं तहिं भावं ॥१॥दर्शनं च निःशाङ्कितादिगुणोपेतं सम्यक्त्वम् , ज्ञानं चाचारादिश्रुतम् , चारित्रं च मूलोत्तरगुणानुपालनात्मकम् , दर्शनज्ञानचारित्रं द्वन्द्वैकवद्भावः, एवं तपश्चानशनादि, विनयश्चाभ्युत्थानादिस्तपोविनयं, एतदर्शनादि यत्र पार्श्वस्थादौ पुरुषे यावद्यत्परिणाम स्वल्पं बहु वा जानीयात्तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव भक्त्या कृतिकर्मादिलक्षणया पूजयेत् । इति बृहत्कल्पवृत्तौ तृतीयखंडैकादशपत्रे ॥३॥ एतेनैव च ये पार्श्वस्थं सर्वथाऽचारित्रिणं मन्यन्ते तेऽपि परास्ता द्रष्टव्याः। केनचित्कारणबलेन परैः सह संवासे समापने येन सह स्थेयं, यद्वा कर्त्तव्यं तल्लिख्यते पच्छन्नअसति निणहव, बोडिय भिरकु य असोय सोआय । पउरदवचड्डगाई, गरहा य सअंतरं एको ॥१॥ प्रच्छन्नस्य कंटकचिलिमिलिकयोश्चाभावे निवेषु तिष्ठन्ति । तदभावे बोटिकेषु, तदप्राप्तौ भिक्षुकेषु । एतेष्वपि पूर्वमशौचवादिषु , ततः शौचवादिषु, ततः शौचवादिषु च स्थिता आचमनादिषु क्रियासु प्रचुरद्रव्येण कार्य कुर्वन्ति । चइकं कमढकं तत्र भुञ्जते । आदिशद्वादपरेणापि येन ते शौचवादिनो जुगुप्सां न कुर्वन्ति, तस्य परिग्रहः । एवं प्रवचनस्य गर्दा परिहृता भवति । सान्तरं ॥१५८। Jan Education Int el For Private Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy