SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ वाऽपावृण्वन्ति वा । यत्र चान्धकारे प्रेक्षा-चक्षुषा निरीक्षणं न शुद्ध्यति तत्र रजोहरणेन दारुदंडेन वा रजन्यां प्रमृज्य सारयन्ति द्वारं स्थगयन्तीत्यर्थः । उपलक्षणत्वादुद्घाटयन्तीत्यपि द्रष्टव्यम् । इति बृहत्कल्पसूत्रवृत्तौ द्वितीयखंडे विशे पत्रे ॥१॥ साध्वीनां तु वसतौ कपाटमवश्यमपेक्षितं, सर्वथा च तदभावे विधिः कर्त्तव्यः स लिख्यते द्वितीयपदमाह-अडाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए । दबस्स व असईए ताओवि अपच्छिमा पिंडी॥ (१॥) अध्वनो निर्गतादयः संयत्यस्विकृत्वस्त्रीन वारान् वसतिं मार्गयित्वा असत्यलभ्यमाने गुप्तद्वार उपाश्रये अपावृतद्वारेऽपि वसन्ति । तत्र च यदि कपाटमवाप्यते ततः सुन्दरमेव, अथ न प्राप्यते, अतो द्रव्यस्य कपाटस्यासति कंटकादिकमप्यानीय पिधातव्यं यावदपश्चिमा सर्वान्तिमा यतना । 'तप्रोवि पिंडी'त्ति ताः सर्वा अपि पिंडीभूय परस्परं करवन्धं कृत्वा दंडकव्यग्रहस्तास्तिष्ठन्तीति । एनामेव नियुक्तिगाथा व्याचष्टे-अन्नतो व कवाडं, कंटियदंडचिलिमिलिवहिं किटिया। पिंडीभवंति सभए, काऊण नोन्नकरबन्धं ॥ (२॥) कपाटयुक्तस्य द्वारस्याभावे अन्यतोऽपि कपाटं याचित्वा द्वारं पिधातव्यम् , अथ याच्यमानमपि तन्न लब्धं, ततो वंशकटो याचितव्यः, तस्यालाभे कंटिका:-कंटकशाखाः, तासामप्राप्तौ दंडकैस्तिरश्चीनाश्चिलिमिलिका क्रियते, तावतां दंडकानामभावे वनचिलिमिलिका बध्यते, बहिरिमूले किटिकाः-स्थविराः क्रियन्ते । अथ कोऽपि तासामभिद्रवणं करोति, ततस्तादृशे सभये सोपसर्गे सति अन्योन्यकरबन्धं कृत्वा पिंडीभवन्ति । कथं पुनः ? इत्यत आह-अंतो हवंति तरुणी, सई दंडेहि ते य तालिंति । अह तत्थ होंति वसभा, वारिति गिहीव तो होउं ।। (३॥) अन्तर्मध्ये तरुण्यो गृहीतदंडकहस्तास्तिष्ठन्ति, बहिस्तु स्थविराः, तास्तरुण्योऽपि शब्द-बृहद्धनिताचोलं कुर्वन्ति, येन भूयान् Jain Education Inter16! For Private & Personel Use Only Www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy