________________
विचार
GIOTTI
॥१५७||
शरीरस्तेना वा प्रविशेयुः एवं श्वापदा:-सिंहव्याघ्रादयः उद्धामका:-पारदारिकाः गौः-बलीवर्दः श्वानः प्रतीतः एते वा द्वारमुद्घाटं दृष्ट्वा प्रविशेयुः तथा 'अणप्पज्झे' ति अनात्मवशः-क्षिप्तचित्तादि द्वारेऽपिहिते निर्गच्छेत् शीतं वा दुरधिसहं हिमकणानुषक्तं निपतेत् दीर्घा वा-सर्पाः पक्षिणो वा काककपोतप्रभृतयः प्रविशेयुः सागारिको वा कश्चित् प्रतिश्रयमुद्घाटद्वारं दृष्ट्वा तत्र प्रविश्य शयीत विश्रामं वा गृहीयात् ।। एकेकंमि उ ठाणे, चउरो मासा हवंति उग्धाया ॥ आणाइणो य दोसा, विराहणा संजमायाए ॥ (७॥) द्वारमस्थगयतामनन्तरोक्ते एकैकस्मिन् प्रत्यनीकप्रवेशादौ स्थाने यदि द्वारं न स्थगयंति - तदा चत्वारो मासा उद्धाताः-लघवः प्रायश्चित्तं भवन्ति, आज्ञादयश्चात्र दोषाः, विराधना च संयमात्मविषया भावनीया ।। | यदुक्तं चत्वारो मासा उद्धाता इति तदेतद्बाहुल्यमङ्गीकृत्य द्रष्टव्यम् । अतोऽपवादयन्नाह-अहिसावयपञ्चत्थिसु, गुरुगा सेसेसु इंति चउलहुगा । तेणे गुरुगा लहुगा, आणाइविराहणा दुविहा ॥ (८1) अहिषु श्वापदेषु च प्रत्यर्थिषु च प्रत्यनीकेषु द्वारमस्थगयतां प्रत्येकं चत्वारो गुरुकाः। शेषेषुद्धामकादिषु सागारिकान्तेषु चतुर्लघुकाः । स्तेनेषु गुरुका लघुकाश्च भवन्ति, तत्र शरीरस्तेनेषु चतुर्गुरुकाः, उपधिस्तेनेषु चतुर्लघुकाः आज्ञादयश्च दोषाः । विराधना द्विविधा-संयमविराधना, आत्मविराधना च, तत्र संयमविराधना स्तेनैरुपधावपहृते तृणग्रहणमग्निसेवा वा कुर्वन्ति । सागारिकादयो वा तप्तायोगोलकल्पाः प्रविष्टाः सन्तो निषदनशयनादि कुर्वाणा बहूनां प्राणिजातीयानामुपमर्दनं कुर्युः । आत्मविराधना तु प्रत्पनीकादिषु स्फुटैवेति ॥ आह-ज्ञातमस्माभिर्धारपिधानकारणं, परं कात्र यतना ? इति नाद्यापि वयं जानीमः, उच्यते-उवोगं हिठुवरिं, काऊण ठविंतवंगुरते | य । पेहा जत्थ न सुज्झइ, पमजिउं तत्थ सारिति ॥ (९||) श्रोत्रादिभिरिन्द्रियैरधस्तादुपरि चोपयोग कृत्वा द्वारं स्थगयन्ति
१५७॥
Join Education Internal
For Private & Personal Use Only
!.
jalnelibrary.org