SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Jain Education द्वारं पिदध्यादपि कथम् ? इत्याह- सिय कारणे पिहिजा, जिणजागग गच्छि इच्छिमो नाउं । श्रगाढकारणंमि उ, कप्पड़ जयगाइ उवएसं || ३ || स्यात् - कदाचित् कारणे पुष्टालंबने पिदध्यादपि द्वारम् । जिना:- जिनकन्पिका ज्ञायकाः- तस्य कारणस्य सम्यग्वेत्तारः परं द्वारं न पिदधति । शिष्यः प्राह- गच्छे गच्छवासिनां इच्छामो वयं विधिं ज्ञातुम्, सूरिराह- श्रगाढं प्रत्यनीकस्तेनादिरूपं यत्कारणं तत्र यतनया वच्यमाणलक्षण्या गच्द्रवासिनां द्वारं स्थगयितुं पिधातुं कल्पते । एष निर्युक्तिगाथासमासार्थः । अथैनामेव विवृणोति -जाणंति जिया कर्ज, पत्तेवि उ तं न ते निसेवंति । थेरावि उ जागती, अणागयं I पतं तु ॥ ४ ॥ जिना : जिनकल्पिका अधितसातिशयश्रुतास्तत्कार्यमनागतमेव जानन्ति येन द्वारं पिधीयते तच्च प्रत्यनी - कस्तेनादिकं वक्ष्यमाणलक्षणं तमिव प्राप्तेऽपि तत् द्वारपिधानं ते भगवन्तो न निषेवन्ते, निरपवादानुष्ठानपरत्वात् । स्थविरा अपि स्थविरकल्पिकाः श्रपि सातिशयश्रुतज्ञानाद्युपयोगबलेन केचिदनागतमेव जानन्ति केचित्तु निरतिशयाः प्राप्तमेव तत्कार्यं जानन्ते ज्ञात्वा च यतनया तत्परिहरन्ति । अहवा जिणप्पमाणा कारणसेवी प्रदोस होइ । थेरावि जाणग च्चिय, कारणजयगाइ सेवता ॥ ५ ॥ अथवा ' जिणजागग ' त्ति पदमन्यथा व्याख्यानयति – जिनः - तीर्थङ्करस्तस्य प्रामाण्यात्कारणाद्वारपिधानसेवी प्रदोषवान् भवति, कुत इत्याह- ' थेरावि ' इत्यादि, जिनानां हि भगवतामियमाज्ञा कारणे यतनया द्वारपिधानं सेवमानाः स्थविरकल्पिका अपि ज्ञायका एव सम्यग्विधिज्ञा एव । श्रह किं तत्कारणं १ येन द्वारं विधीयते उच्यते- पडिणीयतेण सावय उन्भामगगोणसाणाऽणप्पज्झे । सीयं च दुरधियासं, दीहा पक्खी सागर || ( ६ ॥ ) उद्घाटिते द्वारे प्रत्यनीकः प्रविश्य हननं श्रपद्रावणं वा कुर्यात् । स्तेना उपधिस्तेनाः ational For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy