SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ विचार तत्र च केचन 'सुसाणि सुन्नागारे वा' इत्यादीन्यन्यानि वा कपाटनिषेधाक्षराणि दर्शयन्तः सकपाटवेश्मस्थायिन इमे। मुनय एव न भवन्तीत्यादि ब्रुवाणा आचार्योपाध्यायादिमहापुरुषाशातनया संसारं पल्लवयंति, कपाटनिषेधश्च जिनकल्पिकाश्रितः | ॥१५६॥ स्थविरकल्पिके योजयन्तीति नयनौषधं श्रवणयोः क्षिपन्तीति । स्थविरकल्पिकानां प्रत्युताकपाटोपाश्रयावस्थाने दोषा| इत्यक्षराणि लिख्यन्ते कप्पइ निग्गंथाणं अवंगुयदुवारिए उवस्सए वत्थए । कल्पते निग्रन्थानामपावृत्तद्वारे-उद्घाटद्वारे उपाश्रये वस्तुमिति सूत्रार्थः । अथ भाष्यविस्तरः-निग्गंथदारपिहणे, लहुप्रो मासो उ दोसु आणाई । अइगमणे निग्गमणे, संघट्टणमाइ पलिमंथो ॥१॥ निर्ग्रन्था यदि द्वारपिधानं कुर्वन्ति तदा लघुको मासः प्रायश्चित्तम् , आज्ञादयश्च दोषाः, विराधना त्वियम्कोऽपि साधुरतिगमन-प्रवेशं करोति, अन्येन च साधुना द्वारपिधानाय कपाट प्रेरितं तेन च तस्य शिरस्यभिघाते परितापादिका ग्लानारोपणा, एवं निर्गमनं कुर्वतोऽपि केनचिद्वहिःस्थितेन पश्चान्मुखं कपाट प्रेरिते शीर्ष भिद्यते तथा त्रसजन्तूनां सट्टनमादिशब्दात्परितापनमपद्रावणं वा द्वारे पिघीयमाने अपात्रियमाणे वा भवेत् , परिमन्थश्च-सूत्रार्थव्याघातो भूयो भूयः पिदधतामपावृण्वतां च भवति । एतामेव नियुक्तिगाथा व्याख्यानयति--घरकोइलिया सप्पे, संचाराई य हुति हेटुवरि । ढकिंतवंगुरिते, अभिघातो नितईताणं ॥२॥ द्वारस्याधस्तादुपरि च गृहकोकिला वा सो वा सञ्चारिमा वा कीटिकाकुन्थुकंसारि कादयो जीवा भवेयुः, आदिशब्दात्कोलिकादयो वा संपातिमसत्वाः, ततो द्वारं ढंक्कयतामपावृण्वतां च-उद्धाटयतां 'नितइताणं Hति निर्गच्छन्तां प्रविशतां वा गृहकोकिलादिप्राण्यभिघातो भवेत् । सर्पवृश्चिकादिभिर्वा साधनामेवाभिघातो भवेत् । द्वितीयपदे ॥१५६॥ Jain Education na For Private & Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy