________________
Jain Education Inte
तन्निमित्तो, बन्धो सुमो विदेसियो समए । अणवजो उपयोगेण सव्वभावेण सो जम्दा ||६६७ ॥ न च तस्य तनिमित्तो बन्धः सूक्ष्मोऽपि देशितः समये - सिद्धान्ते, किं कारणम् यतोऽनवद्योऽसौ साधुस्तेन व्यापादनप्रयोगेण - व्यापादनष्यापारेण, कथम् ? सर्वभावेन सर्वात्मना मनोवाक्कायकर्मभिरनवद्योऽसौ यस्मात् न सूक्ष्मोऽपि बन्धस्तस्येति ।। ६६८ ॥ णाखी कम्मस्स खयट्टमुट्ठिओऽणुडिओ य हिंसाए । जयइ असढं अहिंसत्थमुडिओ वह सो उ ॥ ६६६ ॥ ' गाणी ' ज्ञानमस्यास्तीति ज्ञानी - सम्यग्ज्ञानयुक्तः कर्मचयार्थमुत्थित उपयुक्तो हिंसायां च न स्थितः । तथा यतते - कर्मक्षयार्थ प्रयत्नं करोति शठभावरहितो यत्नं करोति न पुनर्मिथ्याभावेन, सम्यग्ज्ञानयुक्त इत्यर्थः । तथा अहिंसार्थमुत्थितः - उद्यतः, किन्तु सहसा कथमपि यत्नं कुर्वतोऽपि प्राणिवधः सञ्जातः स एवंविधोऽवधकः साधुः ॥ ६६६ || तस्स असंचेायश्रो, संचेययत्र च जाणि सत्ताणि । जोगं पप्प विणस्संति, यत्थि हिंसाफलं तस्स ॥ ६७० ॥ ' तस्स ' तस्येव प्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्युद्यतस्यासश्चेतयतः अजानानस्य किं सच्चानि कथं प्रयत्नवतोऽपि कथमपि न दृष्टः प्राणी व्यापादितश्च तथा सश्चेतयतः कथमस्त्यत्र प्राणी ज्ञातो दृष्टश्च न च प्रयत्नं कुर्वताऽपि रक्षितुं पारितः ततस्तस्यैवंविधस्य यानि सत्त्वानि योगं कायादिव्यापारं प्राप्य विनश्यन्ति, तत्र तस्य नास्ति साघोहिंसाफलं साम्परायिकं संसारजननम् । यदि परमीर्यापथप्रत्ययं कर्म भवति तदैकत्र समये बद्धमन्यत्र क्षपयति ॥ ६७० || इति श्री ओघनिर्युक्तिसूत्रवृत्तौ ॥ १६ ॥
॥ इति श्रीमदकब्बर भूपाल विशालचित्तालवाल विवर्द्धितवृषर सालसालातिशालिशीलजगद्गुरु भट्टारक श्रीहरिविजयसूरीश्वर शिष्योपाध्याय श्री कीर्त्तिविजयगणि समुचिते विचाररत्नाकरे मध्यभागे श्रीमूलसूत्रविचारसमुच्चयनाम्नी कलिका समाप्ता ॥
॥ समाप्तञ्चायं मध्यभागः ॥
For Private & Personal Use Only
www.jainelibrary.org