________________
विचार
रत्नाकर
॥१४॥
धारयेत् भिक्षुः । किंविशिष्टामित्यत माह-' पगासपडिलेहणं' इति प्रकाशे प्रकटप्रदेशे प्रत्युपेक्षणं क्रियते यस्या उपधेस्ताN मेवंगुणविशिष्टां धारयेत्, एतदुक्तं भवति-यस्याः प्रकटमेव कल्पाद्युपधेः प्रत्युपेक्षणा क्रियते, न तु महार्घमूल्याच्चौरभयादभ्यन्तरे
या क्रियते सा तादृशी उपधिर्धारणीया इति ॥ १०६४ ॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू, जोगाणं साहणट्ठया ॥ १०६५ ॥ सुगमम् । नवरं योगा: संयमात्मका गृह्यन्ते, तेषां साधनार्थमिति । नवरं अध्यात्मविशुद्ध्या उपकरणं ग्राह्यम्, पात्रकादि परिहरन्तो भणितो जिनैस्त्रैलोक्यदर्शिभिः, अतो यत्किञ्चिद्धर्मोपकरणं तत्परिग्रहो न भवति । अत्राह कश्चिद्वोटिकपक्षपाती-यापकरणसहिता अपि निर्ग्रन्था उच्यन्ते, एवं तर्हि गृहस्था अपि निर्ग्रन्थाः, यतस्तेऽपि उपकरणसहिता वर्तन्ते ॥१०६५ अत्रोच्यते-अज्झप्पविसोहीए, जीवनिकाएहि संथडे लोए। देसियमहिंसगत्तं, जिणेहि तेलुकदंसीहिं ॥१०६६॥ नन्विदमुक्तमेव यदुताध्यात्मविशुद्ध्या सत्युपकरणे निर्ग्रन्थाः साधवः । किञ्च यद्यध्यात्मविशुद्धिर्नेष्यते ततो 'जीवनिकाएहि संथडे लोए' इति, जीवनिकायैर्जीवसङ्घातैरयं लोकः संस्तृतो वर्त्तते, ततश्च जीवनिकायसंस्तृते व्याप्ते लोके कथं नग्नश्चमन् वधको न भवति । यद्यध्यात्मविशुद्धिर्नेष्यते, तस्मादध्यात्मविशुद्ध्या देशितमहिंसकत्वं जिनैलोक्यप्रदर्शिभिरिति ॥१०६६।। क प्रदर्शितं ! तदित्यत आह-उच्चालियंमि पाए, ईरियासमियस्स संकमट्ठाए । वावजेज कुलिंगी, मरिज तं जोगमासज ॥ १०६७ ।। ' उच्चालियंमि' इत्यादि, उच्चालिते उत्पाटिते पादे सति ईर्यासमितस्य साधोः सङ्कमार्थमुत्पाटिते | पादे इत्यत्र सम्बन्धः, व्यापद्येत सङ्घट्टनपरितापनेन कः कुलिङ्गी ? कुत्सितानि लिङ्गानि-इन्द्रियाणि यस्यासौ कुलिङ्गी द्वीन्द्रियादिः, स परिताप्येत उत्पाटिते पादे सति म्रियते चासौ कुलिङ्गी, तं व्यापादनयोगमासाद्य ॥१८६७ ॥ न य तस्स
॥१४०॥
Jan Education
For Private
Personal Use Only
www.jainelibrary.org
Lel