________________
Jain Education Inter
कायविराधना सम्भवत्येव । केवलिप्रत्युपेक्षणाक्षराणि चेमानि -
• दुविहा खलु पडिलेहा, उमत्थाणं च केवलीणं च । श्रभितरबाहिरिया, दुविहा दब्बे य भावे य ॥ ४०३ ॥ द्विविधा प्रत्युपेक्षणा कतमेन द्वैविध्येन ? द्विधा इत्यत आह-छद्मस्थानां केवलिनां च सा चैकेका द्विविधा, याऽसौ छद्मस्थानां साद्विधा ग्राह्या अभ्यन्तरा च या च केवलिन साsपि श्रभ्यन्तरा चाह्मा च ' दव्वे भावे य' त्ति याऽसौ बाह्या प्रत्युपे - क्षणा सा द्रव्यविषया, याऽप्यभ्यन्तरा सा भावविषयेति, तत्र केवलिप्रत्युपेक्षयां प्रतिपादयन्नाह - पाणेहि उ संसत्ता, पडिलेहा होइ केवलीणं तु । संसत्तमसंसत्ता, छउमत्थाणं तु पडिलेहा ॥ ४०४ ॥ प्राणिभिः संसक्तं यद्रव्यं तद्विषया प्रत्युपेक्षणा भवति केवलिनाम्, 'संसत्तमसंसत्त' चि संसक्तद्रव्यविषया असंसक्तद्रव्यविषया च छद्मस्थानां प्रत्युपेक्षणा भवति । आह-यथोपन्यासस्तथा निर्देश इति न्यायात्प्रथमं ब्रह्मस्थानां व्याख्यातुं युक्तं पश्चात्केवलिनामिति ? उच्यते, प्रधानत्वात्केवलिनां प्रथमं व्याख्या कृता पश्चाच्छद्मस्थानामिति । श्रह - तत्कथं प्रथममेवैवमुपन्यासो न कृत ? इत्युच्यते तत्पूर्वकाः केवलिनो भवन्तीति स्यार्थस्य ज्ञापनार्थमिति । अनेन वा कारणेन केवलिनः प्रत्युपेक्षणा कुत्ता, पञ्चाच्छद्मस्थानामिति । आह-तत्कथं प्रत्युपेक्षणां कुर्वन्ति ? इति - संसज्जइ धुवमेयं, अपेहियं तेरा पुण्यपडिले हे । पडिलेहियपि संसज्ज चि संसत्तमेव जिणा ॥ ४०५ ॥ संसज्यते-प्राणिभिः संसर्गमुपयाति ध्रुवमवश्यमेतद्वत्रादि श्रप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति, यथा तु पुनरेवं संविद्रते इदमिदानीं वस्त्रादिप्रत्युपेक्षितमपि उपभोगकाले संसज्यते तदा ' संसत्तमेव जिग' ति संसक्तमेव जिना:केवलिनः प्रत्युपेक्षन्ते, न त्रनागतमेव पलिमंथदोषात् उक्ता केवलिद्रव्यप्रत्युपेक्षणा, इदानीं केवलिन एव भावप्रत्युपेक्षणां
For Private & Personal Use Only
www.jainelibrary.org