________________
विचार
रत्नाकरः
॥१३७॥
अथाष्टमीचतुर्दश्योर्वाचना न देया, इत्यक्षराणि लिख्यन्ते
" अट्ठमिपरिकए मोत्तुं, वायणाकालमेव य सेसकालंमि इंतीओ, नेयाओ अकालचारीओ" इति श्रीउत्तराध्ययनचतुर्दशसहस्यां षोडशाध्ययनवृत्तौ २१६ पत्रे । १३ ॥
अथौधनियुक्तिसूत्रवृत्तिविशेषा गाथा-तत्र प्रथमं चतुर्णामनुयोगानां स्वरूपं, तेषां प्राधान्याप्राधान्ये च जिज्ञासया लिख्यते
चत्तारि उ अणुोगा, चरणे धम्मगणियाणुओगे य । दविअणुओगे य तहा, अहक्कम ते महिड्डीया ॥७॥ व्याख्या -'चत्तारि' चत्वारोऽनुयोगाः, तुशब्दाद् द्वौ च पृथक्त्वापृथक्त्वभेदात्, 'चरणे' उत्तरपदलोपादित्थमुपन्यासः, अन्यथा चरणकरणानुयोग इत्येवं वाच्यम् , स चैकादशाङ्गरूपः, धर्मानुयोग-उत्तराध्ययनप्रकीर्णकरूपः, गणितानुयोगः-सूर्यप्रज्ञप्त्यादिरूपः, | चशब्दः प्रत्येकमनुयोगपदसमुच्चायकः, द्रव्यानुयोग:-सदसत्पर्यालोचनारूपः, स च दृष्टिवादः, चशब्दादनार्षः। यथाक्रमं ते महर्द्धिका:-प्रधानाः एवं व्याख्याते सत्याह पर:-चरणपदं भिन्नाया विभक्त्या किमर्थमुपन्यस्तम् ? धर्मगणितानुयोगौ तु एकयैव विभक्त्या, पुनद्रव्यानुयोगो भिन्नया विभक्त्येति ? तथाऽनुयोगशब्द एक एवोपन्यसनीयः, किमर्थ द्रव्यानुयोग इति | भेदेनोपन्यासः इति ?, उच्यते-चरणपदस्य भेदोपन्यासे एतत्प्रयोजनं, चरणकरणानुयोग एवात्राधिकृतः प्राधान्यख्यापनार्थ भिन्नया विभक्त्योपन्यासः, धर्मगणितानुयोगावभिन्नावुपन्यस्तो, तावत्र प्रक्रमेऽप्रधानाविति प्रदर्शनार्थम् , द्रव्यानुयोगस्य भिन्नत्वे इदं कार्यम्-यदयं हि एकैकानुयोगो मेलनीयः, न पुनलौकिकशास्त्रवाक्तिभिर्विचारणीयः। अनुयोगशब्दद्वयोपन्यासे इदम्-यत्रयाणां पदानामन्तेऽनुयोगपदं तदपृथक्त्वाऽनुयोगार्थम् , यच्च द्रव्यानुयोग इति तत्पृथक्त्वानुयोगार्थम् । आह परः
॥१३७॥
Join Education Inte
!
For Private & Personal Use Only
Wrwww.jainelibrary.org