________________
Jain Education Intel
तत्कथमहं निर्व्याजदानफलं विहाय प्रत्युपकारेण दानप्रवृत्तिं विदधामीति सम्प्रधार्य गदितोऽसौ परिव्राजकः-भद्र ! व्रज त्वमिदानीम्, न कृतोपकारिणे भवते ततिं विधास्यामि, यस्मादुपकारिणि विहितं दानं निष्फलमुपजायते, इत्येष मुधादायति । मुधाजीविन्युदाहरणमुच्यते कश्चिन्नरपतिरनित्यतां विलोक्य प्रियाणामपि पुत्रकलत्रपौत्रादीनामुपजातवैराग्यो धर्माधर्मपरीक्षां चक्रे । " को वा श्रणिविट्ठे भुंजई" ततस्तं परीक्षयामीति सम्प्रधार्य पुरुषानादिदेश - यथा राजा मोदकान् प्रयच्छति समागत्य गृह्यताम् । इति समाकण्र्योद्घोषणामुपाजग्मुः कार्यटिकप्रभृतयोऽर्थिजनाः । पृष्टाश्च ते भूभुजा - केन भवन्तो जीवथ ? तत्रैकेनोक्तम् अहं तावन्मुखेन, अपरेण गदितम् - अहं पादाभ्याम्, अपरेणोक्तम् अहं हस्ताभ्याम्, अन्येन निवेदितम् - अहं ॐ लोकानुग्रहेण, क्षुल्लकसाधुनोक्तम् अहं मुधिकयेति । ततस्तान्नरपतिः पुनर्जगाद - कथमिव ? इति ततः प्रथमो जगाद - अहं तावत्कथको जनानां विस्तार्य रामायणादिकथां कथयामि तेन मुखेन जीवामीति । द्वितीयः प्राह- अहं लेखवाहको घटिकामध्ये योजनं लङ्घयामि, तेन पादाभ्यां जीवामीति । तृतीयः प्राह - अहं हि लेखको तो हस्ताभ्यां जीवामि । भिक्षुणोक्तम्अहं प्रव्रजितः, श्रतो लोकानामनुग्रहेण । चुल्लकसाधुनोक्तम्- प्रवजितो जन्मजरामरण रोगशोकाद्युपद्रवशतोपद्रुतं, दारिद्र्यदौर्भाग्यकलङ्कत्रात कलुषितं, इष्टवियोगानिष्टसंयोगदुःखजनितव्यसनशतनिलयं, क्षुधा पिपासाशीतोष्ण क्लेश सहस्रसङ्कुलं, दैन्यचिन्ताजरादिभिः क्षणमप्यमुक्तसमीपं संसारं विलोक्य ततो निर्विषः प्रतिपद्यामुं शरीरमानसानेकदुःखजलधिविलङ्घन सेतुं, सौभाग्यसौजन्योदार्योपकारकारणप्रतिनिष्टं ज्ञानविज्ञानजनकं, विजितसमस्तराजन्यचक्रराज्यसम्पादकं, स्वर्गवाससम्पादितसुखाशयसन्दोहं, मोक्षफलदायकं जैनं धर्मम् । ततो मुधिकया यथोपलब्धेनाहारजातेन जीवामीति निशम्य तद्भाषितं, अहो !
For Private & Personal Use Only
18www.jainelibrary.org