________________
विचार
रत्नाकर
॥१३२॥
विधिना धर्मलाभमकृत्वा ।। १८ ।। इति श्रीदशवकालिकपिण्डैषणाध्ययनप्रथमोद्देशके ११४ पत्रे ॥ ४ ॥
गृहस्था हि मुधादायिनः प्रशस्याः साधवश्च मुधाजीविनः प्रशस्याः । उक्तोऽर्थश्च दृष्टान्तद्वारा सुखाधिगम्यो भवतीति सदृष्टान्तं मुधादायिमुधाजीविस्वरूपं लिख्यते
दुलहा उ मुहादाई, मुहाजीवी वि दुल्लहा । मुहादाई-मुहाजीवी, दावि गच्छति सुग्गई ॥ १०० ॥ इति । वृत्तियथादुर्लभा एव मुधादातारः, तथाविधभागवतवत् , सुधाजीविनोऽपि दुर्लभाः, तथाविधक्षुल्लकवत् । अमीषां फलमाह-मुधादातारो मुधाजीविनश्च द्वावप्येता गच्छतः सुगति-सिद्धिगतिं कदाचिदनन्तरमेव कदाचिद्देवलोकसुमानुष्यत्वप्रत्यागमनपरम्परया, ब्रवीमीति पूर्ववत् । अत्र भागवतोदाहरणम्-कश्चित् परिव्राजकः कश्चनापि भक्तिमन्तं भागवतमवादीत-यदि मदीयोदन्तमुद्वहसि ततोऽहं तव गृहे वर्षासमयं निर्वाहयामि, तेनोक्तम्-यदि मदीयां तप्तिं न करोषि, तेनोक्तम्-एवं करिष्ये, ततः प्रदत्तस्तेन तस्मै समाश्रयः । न तुमं चकार भोजनादिस्तस्य गृहाधिपतिः अतिक्रान्ते कियत्यपि काले एकदा प्राप्तच्छिदैथोरैस्तस्य भागवतस्य प्रधानोऽश्वः प्रमादेन रक्षकाणामपहृतः । प्रभातं वर्तते, इति न शक्तास्ते तमश्वं निर्वोहुम् , ततोऽतिगहने तं (मुक्त्वा) तेऽन्यत्रोपाययुः, अत्रान्तरे प्रातरेव स्नातुं परिव्राजकस्तडागप्नुपाजगाम, दृष्टश्च तेन सर:समीपवर्त्तिन्यांजाल्यामसौ तुरगः प्रत्यभिज्ञातश्च । अये ! सोऽयमश्वो योऽस्माकमुपकारिणो भागवतस्य तस्करैरपहृतः। तेन गत्वा खमावासमग्रे गृह| पतिपुरुषाणामुक्तं यथा-मम स्नातुं सरसीं गतस्य जाल्यां धौतवासो विस्मृतं ततश्चाकथि । ततस्तैः पुमान् प्रहितः, तेन च तत्र गतेन दृष्टोऽसौ वाजी समानीतश्च कथितो गृहपतये । ततस्तेन समचिन्ति- अये ! व्याजेन व्रतिना ममोपकारः कृतः,
H॥१३२॥
Jan Education Internal
For Private Personal use only
| www.jainelibrary.org