SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ विचार॥ १३१ ॥ भवद्वारमाह-कियतो भवानेकजीवः सामायिकचतुष्टयं प्रतिपद्यते ? इति दर्शयन्नाह - सम्म त्तदेसविरया, पलिस्सासंखभागमेताओ । श्रभवाय चरित्ते, अांतकालं च सुत्रसमए ॥ १० ॥ सम्यक्त्ववन्तो देशविरतिमन्तश्च स्वं स्वं सामायिकं क्षेत्रपल्योपमासङ्घयेयभागमात्रान् भवान् यावन्नभन्ते इदमत्र हृदयम् - एकजीव उत्कर्षतः सम्यक्त्वं देशविरतिं चासयेयान् भवान् यावल्लभत इत्यर्थः, जघन्यतस्त्वेको भवः । तथोत्कर्षत एकजीवः सर्वविरतिं श्रष्टौ भवान् यावत्प्राप्नोति, ततः सिद्ध्यतीति । जघन्यतस्त्वेक एव । तथोत्कर्षत एक जीवः सामान्यश्रुत सामायिकमनन्तान् भवान् यावल्लभते जघन्यतस्त्वेक भवमेव मरुदेवावच्चेति || १० || साम्प्रतमाकर्षद्वारमाह- आकर्षणमाकर्षः प्रथमतया ग्रहणं, मुक्तस्य वा ग्रहणमित्यर्थः । तिह सहस्सपुहुत्तं, सयपुहुत्तं च होइ विरईए । एगभवे आगरिसा, एवइया हुंति नायव्वा ॥ ११ ॥ आद्यसामायिकत्रयाणामुत्कर्षत एकभत्रे सहस्रपृथक्त्वमाकर्षाने कजीवः करोति । सर्वविरतेः शतपृथक्त्वमाकर्षानेकभवे करोति । जघन्यतस्त्वेकमेवेति गाथार्थः ॥ ११ ॥ नानाभवाकर्षानाह - तिन्ह सहस्तमसंखा, सहसपुहुत्तं च होइ विरईए । नाणाभव आगरिसा, एवइया होंति नायन्त्रा ॥ १२ ॥ आद्यत्रयाणां सहस्राण्यसङ्ख्येयानि, सर्वविरतेः सहस्रपृथक्त्वं च एतावन्तो नानाभवेष्वाकर्षाः । इयं भावना - त्रयाणां ह्येकभवे सहस्रपृथक्त्वमाकर्षाणामुक्तम्, भवाश्च पल्योपमासङ्ख्थेयभागसमयतुल्याः, ततश्च सहस्रपृथक्त्वं, तैर्गुणितं सहस्राण्यसङ्ख्येयानीति । सर्वविरतेरेकभवे शतपृथक्त्वमाकर्षाणामुक्तम् भवाश्चाष्टौ शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवतीत्यववार्थः ॥ १२ ॥ अधुना क्षेत्रस्पर्शनाद्वारमाह-सम्मत्तचरणसहिया, सव्वं लोचं फुसइ निरवसेसं । सत्त य चउदसभाए, पंच य सुप्रदेस विरईए || १३ || सम्यक्त्वचरणयुक्ताः प्राणिन उत्कृष्टतः सर्वं लोकं स्पृशन्ति, एते च केवलिसमुद्धातावस्थायामिति । Jain Education Inmational For Private & Personal Use Only रत्नाकर. ॥ १३१ ॥ www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy