________________
संपइ, पयरस्स असंखभागमेत्तायो । सेसा संसारत्था, सुअपरिवाडिया हु ते सव्वे ॥ ६॥ सम्यग्मिथ्यारूपस्य सामान्येनाक्षरात्मकस्य श्रुतस्य ये पूर्वप्रतिपन्नास्ते सम्प्रति-वर्तमानसमये प्रतरस्यासङ्खयेयभागमात्राः प्राप्यन्ते । तथा श्रुतप्रतिपन्नमानकेभ्यस्तु ये शेषाः संसारस्था जीवा भाषालब्धिरहिताः पृथिव्यादय इत्यर्थः, ते सर्वेऽपि व्यावहारिकराश्यनुगता भाषालब्धि प्राप्य प्रतिपतितत्वात् श्रुतप्रतिपतिता मन्तव्याः, ते च सम्यक्त्वप्रतिपतितेभ्योऽनन्तगुणाः ॥ ६॥ अधुनान्तरद्वारमाहसकृदवाप्तपपगतं पुनः सम्यक्त्वादि कियत्कालेनावाप्यते तत्राक्षरात्मकाविशिष्टश्रुतस्यान्तरं जघन्यतोऽन्तर्मुहुर्तम्, उत्कृष्टं त्वाह-कालमगंतं च सुए, अद्धापरियट्टो य देसूणे । आसायणबहुलाणं, उक्कोसं अंतरं होई ॥७॥ एकजीवं प्रति कालोऽनन्त एवान्तरं श्रुतेऽक्षरात्मके उत्कर्षतो भवतीति योगः। केषां ? आशातनाबहुलानां इति । साम्प्रतमविरहित| द्वारमाह-अथ कियन्तं कालं अविरहेण एको द्वयादयो वा सामायिक प्रतिपद्यन्ते ? इत्याह-सम्मसुअमगारीणं, आवलिअअसंखभागमेत्ताओ । अटुसमया चरित्ते, सव्वे वि जहन्नदो समया । ॥ सम्यक्त्वश्रुतदेशविरतिसामायिकानां नैरन्तर्येण प्रतिपत्तिकाल श्रावलिकासङ्खथेयभागमात्राः समयाः, तथा अष्टौ समयाश्चारित्रे निरन्तरं प्रतिपत्तिकालः, सर्वेषां जघन्योऽविरहितप्रतिपत्तिकालो द्वौ समयाविति गाथार्थः । अथ विरहकालद्वारं प्रदर्श्यते-सुअसम्म सत्तयं खलु, विरयाविरईअ होइ बारसगं । विरए य पन्नरसगं, विरहिअकालो अहोरत्ता ।। ६ । श्रुतसम्यक्त्वयोरुत्कृष्टः प्रतिपत्तिविरहकालः सप्तकं-अहोरात्रसतकम्, ततः परमवश्यं कचित् कश्चित् प्रतिपद्यते, जघन्यतस्त्वेक समय इति । देशविरतेरुत्कृष्टः प्रतिपत्तिविरहकाल अहोराद्वादशकम्, जघन्यतस्तु त्रयः समया इति । सर्वविरतेरहोरात्रपञ्चदशकम्, जघन्यतस्तु समयत्रयमेवेति गाथार्थः । साम्प्रतं
Jain Education int
o nal
For Private & Personal Use Only
Lalwww.jainelibrary.org