________________
विचार
समयानन्तरप्रेव कस्याप्यायुष्कक्षयसम्भवात् , देशविरतिपरिणामस्त्वन्तौहूर्तिकः, एवं द्विविधत्रिविधादिभङ्गबहुलप्राणाति-रत्नाकर.
पातादिनिवृत्तिरूपत्वात् , सर्वजीवापेक्षया तु सर्वाणि सर्वदा इति । ३ । अथैकस्मिन् समये सामायिकचतुष्कस्य प्रतिपद्यमान॥१३०॥
कान् प्रतिपादयन्नाह-सम्मत्तदेसविरया, पलिअस्स असंखभागमेत्ताओ । सेढीअसंखभागो, सुए सहस्सग्गसो विरई ॥ ४ ॥ उत्कर्षत एकस्मिन् विवक्षितसमये सम्यक्त्वं देशविरतिं च प्रतिपद्यमानाः प्राणिनः क्षेत्रपल्योपमासङ्खथेयभागमात्राः प्राप्यन्ते, किन्तु देशविरतिसामायिकप्रतिपत्तृभ्यः सम्यक्त्वप्रतिपत्तारोऽसङ्ख्ययगुणाः प्रतिपत्तव्याः, तथोत्कर्षत एकस्मिन् समये श्रुते सामान्यश्रुते अक्षरात्मके प्रतिपत्तारोऽसङ्खयेयाः घनीकृतलोकैकश्रेण्यसङ्ख्येयभागमात्रा-लभ्यन्ते । तथा सर्वविरतिप्रतिपत्तार | उत्कर्षत एकस्मिन् समये सहस्राग्रशो ज्ञयाः । तथा जघन्यतश्चतुर्णामपि सामायिकानां प्रतिपत्तार एको द्वौ वेति गाथार्थः । ४। सम्प्रति प्राप्रतिपन्नान् प्रतिपतितांश्च प्रतिपादयन्नाह-सम्मत्तदेसविरया पडिवना संपई असंखिज्जा । संखिज्जा य
चरित्ते, तीसु वि पडिया अणंतगुणा ।। ५ ।। सम्यग्दृष्टयो देशविरताश्च प्राक् प्रतिपन्नाः सम्प्रति-विवक्षिते वर्तमानसमये N उत्कर्षतो जघन्यतश्चासङ्खयेयाः प्राप्यन्ते इति शेषः । किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः । एते च प्रत्येक प्रतिपद्य
मानकेभ्योऽसङ्खयेयगुणाः। 'संखिजा य चरित्ते 'त्ति चारित्रे प्राक्प्रतिपन्ना सङ्घचेयाः, एतेऽपि स्वस्थाने प्रतिपद्यमानकेभ्यो । । पूर्वप्रतिपन्नेभ्यश्च चरणपतिता अनन्तगुणाः, तेभ्यो देशविरतिपतिता असङ्खयेयगुणाः, तेभ्योऽपि सम्यक्त्वप्रतिपतिता F असङ्खचेयगुणाः । तदेवमत्र श्रुतवर्जसामायिकत्रयपूर्वप्रतिपन्नाः, प्रतिपतिताश्चोक्ताः। ५ । अथ श्रुतस्य तानाह-सुअपडिवना ॥१३० ॥
Jain Education Intel.la
For Private
Personal Use Only
www.jainelibrary.org