________________
विशेषणे उद्भूतस्तिर्यगनरामरेघायातस्त्रीणि द्विकं चाधिकृत्योभयथाऽपि भवतीति गाथार्थः । देवेसु अणुबट्टे, दुर्ग चउकं सिया य उन्बट्टे । उवट्टमाणो पुण, सव्वो वि न किंचि पडिबजे ॥४५।। व्याख्या-देवेष्वनुभृतः सन् द्विकमाद्यसामायिकद्वयमाश्रित्योभयथा भवतीति क्रिया । ' चउक्कं सिया य उव्वट्टे' इति पूर्ववत् , उद्वर्तमानकः पुनरपान्तरालगतौ सर्वोऽप्यमरादि न किश्चित्प्रतिपद्यते, प्राक्प्रतिपन्नस्तु द्वयोर्भवतीति गाथार्थः । इत्यावश्यकमलयगिरिवृत्तौ ४३५ प्रतौ ३३६ पत्रे ॥ २ ॥
अथ सम्यक्त्वादिसामायिकचतुष्कविचारो लिख्यते-प्रथमं सामायिकचतुष्कलाभद्वारमाह___अब्भुट्ठाणे विणये, परक्कमे साहुसेवणाए य । सम्मइंसणलंभो, विरयाविरईन विरईए ॥ १॥ अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति क्रिया, तथा विनये-अञ्जलिप्रग्रहादिरूपे, तथा पराक्रमे कषायजये, तथा साधुसाध्वीसेवायाम् , तथा विरताविरतेः-देशविरतेविरतेः-सर्वविरतेलाभः । १॥ तच्चतुष्कमित्थं लब्धं सत् कियन्तं कालं जघन्यत उत्कर्षतश्च भवति ? इति स्थितिद्वारं प्रतिपादयन्नाह-सम्मत्तस्स सुअस्स य, छावट्ठीसागरोवमाइ ठिई । सेसाण पुन्चकोडी, देसूणा होइ उक्कोसा ॥२॥ सम्यक्त्वस्य श्रुतस्य च लन्धिमङ्गीकृत्य सम्यक्त्वसामायिकश्रुतसामायिकयोरुत्कृष्टा स्थितिः पदक्षष्टिः सागरोपमाणि किश्चिदधिकानि ॥२॥ कथं इति चेत् ? उच्यते-दो वारे विजयाइसु, गयस्स तिमिच्चुए य छावट्ठी । नरजम्मपुचकोडी, पुहु-| त्तमुक्कोसतो अहिलं ॥ ३ ॥ देशविरतिसर्वविरतिसामायिकयोरुत्कृष्टा स्थितिर्देशोना पूर्वकोटी सप्तमासाधिकवर्षाष्टकोना पूर्वकोटीति यावत् । जघन्यतस्त्वाद्यसामायिकत्रयस्य स्थितिरन्तर्मुहूर्त्तम् , सर्वविरतिसामायिकस्यैका समयः, चारित्रपरिणामारम्भ
Jain Educat
i onal
For Private & Personel Use Only
www.jainelibrary.org