________________
चेत् ? तत आह-यत् यस्मात्सर्वेषामपीन्द्रियाणामुच्छथाङ्गुलेन परिमाणकरणे त्रिगव्यूतानामादिशब्दाद्विगव्यूतादिपरिग्रहः, जिडेन्द्रियादिमानं सूत्रोक्तं संव्यवहारे विरुध्येत । यथा च विरुध्येत तथाऽनन्तरमेव भावितं, तस्मात्सर्वमिन्द्रियविषयपरिमाणमात्माङ्गुलेनैवेति स्थितम् । ननु भवत्वात्माङ्गुलेन विषयपरिमाणं तथाऽप्युक्तस्वरूपं चक्षुरिन्द्रियविषयपरिमाणं न घटते, अधिकस्यापि तद्विषयपरिमाणस्यागमान्तरे प्रतिपादनात् । तथा हि-पुष्करवरार्द्ध मानुषोत्तरपर्वतसमीपे मनुष्याः कर्कसङ्क्रान्तौ प्रमाणाङ्गुलनिष्पन्नैः सातिरेकैकविंशतियोजनलक्षैर्व्यवस्थितमादित्यमवलोकमानाः प्रतिपाद्यन्ते शास्त्रान्तरे, तथा च तद्न्थः" इगवीसं खलु लक्खा , चउवीसं चेव तह सहस्साई । तह पंचसया भणिया, सत्तत्तीसा य अइरित्ता ॥१॥ इइ नयणविसयमाणं, पुक्खरदीवड्डवासिमणुयाणं । पुव्वेण य अवरेण य, पिहिं पिहिं होइ मणुयाणं ॥२॥" ततः कथमुक्तस्वरूपं नयनविषयपरिमाणमात्माङ्गलनापि घटते प्रमाणाङलेनापि व्यभिचारात । उक्तं च--" लक्खेहि एकवीसाइ, साइरेगेहि पुक्खरळूमि । | उदए पेच्छंति नरा, सूरं उक्कोसए दिवसे ॥१॥ नयणिदियस्स तम्हा, विसयपमाणं जहा सुए भणियं । आउस्महपमाणं-गुलेण इकण वि न जुत्तं ॥२॥" सत्यमेतत् केवलमिदं विषयपरिमाणं प्रकाश्यविषयं द्रष्टव्यं न तु प्रकाशकविषयम् । ततः प्रकाशकेऽधिकतरमपि विषयपरिमाणं न विरुध्यते इति न कश्चिद्विरोधः । कथमेतदवसीयते ? इति चेत् उच्यते--पूर्वमूरिकृतव्याख्यानात्, सकलमपि हि कालिकश्रुतं पूर्वसूरिकृतव्याख्यानानुसारेणैव व्याख्यानयन्ति महाधियः, न यथाऽक्षरमन्निवेशमात्रम् । पूर्वगतसूत्रार्थसङ्ग्रहपरतया कालिकथुतस्य क्वचित्सक्षिप्तस्याप्यर्थस्य महता विस्तरेण, कचिद्विस्तरवतोऽप्यतिसङ्क्षपेणाभिधाने अक्तिनैः स्वल्पमतिभिर्यथावस्थितार्थतया ज्ञातुमशक्यत्वात् । अत एवोक्तमिदमन्यत्र-"जं जह भणियं सुत्ते, तहेव जइ तं
Jain Education
For Private
Personal Use Only