SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ रत्नाकरः विचार- अथ च समस्तनगरव्यापी समस्तस्कन्धावारव्यापी च विजयढक्कादिशब्द आगमे प्रतिपाद्यते, तत एवमागमे प्रसिद्धः पञ्चधनुःशतादि (प्रमाणानां ) मनुष्याणां विषयव्यवहारो व्यवच्छेदं मा प्रापदित्यात्माङ्गलेनेन्द्रियविषयपरिमाणमवसातव्यम् , | ११२८॥ IFI नोच्छयाजलेन । तथा चाह भाष्यकृत-जं तेण पंचधणुसयनरादिविसयववहार बोछेओ । पावइ सहस्सगुणियं, जेण पमाणंगलं तत्तो ॥१॥ अत्र तस्मादात्माङ्गुलेनेवेन्द्रियाणां विषयपरिमाणं नोच्छयाङ्गलेनेति, यदप्युक्तं प्राक् देहाश्रितानीन्द्रियाणि इति तेषां विषयपरिमाणमुच्छयाङ्गुलेनेति तदप्ययुक्तं. इन्द्रियाणामपि केषाश्चित्पृथुत्वस्यात्माङ्गुलेन मीयमानत्वाभ्युपगमात् , अन्यथा त्रिगव्यूतादिमनुष्याणां रसाद्यभ्यवहारव्यवच्छेद प्रसक्तेः, तथा हि-त्रिगव्यूतादीनां मनुष्याणां षड्गव्यूतादीनां हस्त्यादीनां (च) स्वशरीरानुसारितया अतिविशालानि मुखानि जिह्वाश्च, ततो याच्छयाङ्गुलेन तेषां क्षुरप्राकारतयोक्तस्याभ्यन्तरनिवृश्यात्मकस्य जिह्वेन्द्रियस्याङ्गुलपृथक्त्वलक्षणो विस्तारः परिगृह्यते तदाऽत्यल्पतया न तत्सर्वां जिह्वां व्याप्नुयात् , सर्वव्यापित्वाभावे च योऽसौ बाहुल्येन सर्वात्मनाऽपि जिया रसावेदनलक्षणः प्रतिप्राणिप्रसिद्धो व्यवहारः स व्यवच्छेदं यायात् । एवं घ्राणादिविषयोऽपि यथायोगं गन्धादिव्यवहारव्यवच्छेदो भावनीयः, तस्मादात्माङ्गुलेन जिह्वादीनां पृथुत्वमवसातव्यम् , नोच्छयाङ्गुलेन । आह च भाष्यकृत-इंदियमाणेवि तयं भयणिज्जं जं तिगाउयाईणं । जिभिदियाइमाणं, संववहारे विरुज्झेजा ॥ १॥ अस्याक्षरगमनिका तदुच्छयाङ्गुलमिन्द्रियमानेऽप्यास्तामिन्द्रियविषयपरिमाणचिन्तायामित्यपि शब्दार्थः भजनीय-विकल्पनीयं, कापि गृह्यते कापि न गृह्यते इत्यर्थः । किमुक्तं भवति ? स्पर्शनेन्द्रियपृथुत्वपरिमाणचिन्तायां ग्राह्यमन्येन्द्रियपृथुत्वपरिमाणचिंतायां तु न ग्राह्यम् , तेषामात्माङ्गलेन परिमाणकरणादिति । कथमेतदवसेयमिति ॥१२८॥ Jain Education Inten For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy