________________
त्माङ्गुलेन प्रमीयते तत्तत्काले वापीकूपादिकं वस्तु, उच्छयाङ्गुलेन नरतिर्यग्देवनैरयिकशरीराणि, प्रमाणाङ्गुलेन नगपृथिवीविमानानि । उक्तं च-" आयंगुलेण वत्थु, उस्सेहपमाणतो मिणसु देहं । नगपुढविविमाणाई, मिणसु पमाणंगुलेणं तु ॥१॥ तत्रेदमिन्द्रियविषयपरिमाणं किमात्माङ्गलेन प्रतिपत्तव्यमाहोस्विदुच्छ्याङ्कलेन ? उच्यते-आत्माङ्गुलेन, तथा चाहचक्षुरिन्द्रियविषयपरिमाणचिन्तायां भाष्यकृत-अप्पत्तकारि नयणं, मणो य नयणस्स विसयपरिमाणं । आयंगुलेण लक्खं, अइरित्तं जोषणाई तु ॥ २ ॥ ननु देहप्रमाणमुच्छ्याङ्गुलेन देहाश्रितानि चेन्द्रियाणि, ततस्तेषां विषयपरिमाणमप्युच्छ्याङ्गुलेन वक्तुमुचितम् , कथमुच्यते आत्माङ्गुलेन ?, नैष दोषः, यद्यपि हि नाम देहाश्रितानीन्द्रियाणि तथाऽपि तेषां विषयपरिमाणमात्माङ्गुलेन देहान्यत्वाद्विषयपरिमाणस्य, तथा चामुमेवार्थमाक्षेपपुरस्सरं भाष्यकृदाह-नणु भणियमुस्सयंगुलपमाणतो जीवदेहमाणाई । देहपमाणं तं चिय, न उ इंदियविसयपरिमाणं ।। अत्र 'देहपमाणं तं चिय' इति यत्तत् उच्छ्याङ्गुलमेयत्वेनोक्तं तदेहप्रमाणमात्रमेव, न त्विन्द्रियविषयपरिमाणम्, तस्यात्माङ्गुलप्रमेयत्वात् । अथ यदि विषयपरिमाणमिन्द्रियाणामुच्छयाजलेन स्यात्ततः को दोष आपद्येत ? उच्यते---पञ्चधनुःशतादिमनुष्याणां विषयव्यवहारव्यवच्छेदः। तथा हि-यद्भरतस्यात्माजुलं तत्किल प्रमाणाङ्गुलम् , तच्च प्रमाणाङ्गुलमुच्छ्याङ्गुलसहस्रेण भवति । 'उस्सेहंगुलमेगं, हवइ पमाणंगुलं सहस्सगुणं ' इति वचनात् , ततो भरतसगरादिचक्रवर्तिनां या अयोध्यादयो नगर्यो ये च स्कन्धावारा आत्मागुलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धास्ते उच्छ्याङ्गलप्रमित्या अनेकानि योजनसहस्राणि स्युः, तथा च सति तत्रायुधशालादिपु ताडितभेर्यादिशब्दश्रवणं न सर्वेषामापयेत “बारसहि जोअणेहिं, सोयं अहिगिण्हए सई” इति वचनात,
JanEducation indan
For Private
Personal use only