SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ विचार ॥१२७॥ प्रपश्चितज्ञाः, तत्र अपश्चितानामनुग्रहाय गम्यमानस्याप्यभिधानमदोषायेति ।प्रकृतभावार्थस्त्वयम्-गन्धद्रव्याणि स्वल्पानि रत्नाकर स्थलानि तदन्यवासनकानि घ्राणादीनि चेन्द्रियाणि श्रोत्रेन्द्रियापेक्षया अपट्टनि, ततो घ्राणेन्द्रियादिगणो गन्धादि आलिजिन्तानन्तरमात्मप्रदेशैरात्मीकृतं गृह्णाति नान्यथेति, एवं व्यागृणीयात् प्रतिपादयेत् प्रज्ञापकः स्वशिष्येभ्यः । एतदेव व्याख्यानं भाष्यकारोऽप्याह-पुढे रेणुं व तणुंमि, बद्धमप्पीकयं पएसेहिं । छिक्काई चिय गिण्हेइ, सद्ददव्वाइ जं ताई ॥१॥ बहुसुहुमभावगाई, जं पडुयरं च सोयविन्नाणं । गंधादियदव्वाई, विवरीयाइं जतो ताई ॥२॥ फरिसाणंतरमत्तप्पएसमीसीकयाइ धिप्पंति । पडुयरविप्लाणाई. जं च न घाणाइ करणाई ॥ ३ ॥ नन्विदमुक्तं योग्यदेशावस्थितमेव रूपं पश्यति नायोग्यदेशावस्थितम् , तत्र कियान् चक्षुषो (श्रोत्रादीनां) विषयः, कियतो | देशादागतं श्रोत्रादि शब्दादिकं गृह्णाति ? उच्यते-श्रोत्रं तावत् शब्दं जघन्यतोऽङ्गुलसङ्खयेयभागमात्रदेशात् उत्कर्षतस्तु द्वादशभ्यो योजनेभ्यः, चक्षुरिन्द्रियमपि जघन्यतोऽङ्गुलसङ्ख्येयभागावस्थितं पश्यति उत्कर्षतस्तु सातिरेकयोजनशतसहस्रव्यवस्थितम् , घ्राणरसनस्पर्शनानि तु जघन्येनाङ्गुलासङ्खचेयभागमात्राद्देशादागतं गन्धादि गृह्णन्ति उत्कर्षतस्तु नवभ्यो योजनेभ्यः। नन्वङ्गुलं त्रिधा भवति तद्यथा-आत्माङ्गुलं उच्छ्याङ्गुलं प्रमाणाङ्गुलं च । तत्र-जेणं जया मरणूसा, तेसिं जं होइ माणरूवं तु । तं भणियमिहायंगुलमणिययमाणं पुण इमं तु ॥ १॥ इत्येवं रूपमात्माङ्गुलम् । परमाणू तसरेणू, रहरेणू । | अग्गयं च वालस्स । लिवस्वा ज्या य जवो, अट्ठगुणविवड्डिया कमसो ॥ २॥ इत्यादिरूपसमुच्छ्याङ्गुलम् । उस्सेहंगुलमेगं, हवइ पमाणंगुलं सहस्सगुणं । तं चेव दुयुणियं, खलु वीरस्सायंगुलं भणियं ॥ ३ ॥ इत्येवं लक्षणं प्रमाणाकुलम् । तत्रा ॥१२७॥ Jain Education Internal For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy