SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ तद्गुणत्वनिबन्धनं किन्तु समवायः, स चास्ति शब्दस्याकाशे न तु पृथिव्यादीनामिति । ननु कोऽयं समवायो नाम एकलोभावेनावस्थानम्, यथा पृथिव्यादे रूपादिभिरिति चेत् ? न तर्हि शब्दस्याकाशगुणत्वं, आकाशेन सहास्यैकलोली भावेनाप्रतिपत्तेः । अथाकाशे उपलभ्यमानत्वात्तद्गुणता शब्दस्य तहिं तूलकादेरप्याकाशे उपलभ्यमानत्वात्तद्गुणता प्राप्नोति, अथ तुलकादेः परमार्थतः पृथिव्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वात्, यद्येवं तर्हि शब्दस्यापि परमार्थतः स्थानं श्रोत्रादि, यत्पुनराकाशेऽवस्थानं सद्वायुना सञ्चार्यमाणत्वात् । तथा हि-यतो यतो वायुः सञ्चरति ततस्ततः शब्दोऽपि गच्छति, वातप्रतिकूलं शब्दस्याश्रवणात् । उक्तं च प्रज्ञाकरगुप्तेन - " यथा वा प्रेर्यते तुलमाकाशे मातरिश्वना तथा शब्दोऽपि किं वायोः, प्रतीपः कोऽपि शब्दवित् ॥ " तन्नाकाशगुणः शब्दः, किन्तु पुद्गलमय इति । तथा रूप्यत इति रूपम् तत्रूपं पुनः पश्यति - गृह्णात्युपलभ्यत इति यावत् । अस्पृष्टं - अनालिङ्गितं गन्धादिवन सम्बद्धमित्यर्थः । तुशब्द एवकारार्थः स चावधारणे, रूपं पुनः पश्यन्नस्पृष्टमेव, चक्षुषोऽप्राप्यकारित्वात् एतच्च प्रागेव भावितम् । पुनः शब्दो विशेषणार्थः, स चैतद्विशिनष्टि अस्पृष्टमपि योग्यदेशावस्थितं न पुनरयोग्यदेशावस्थितममरलोकादि । गन्ध्यते श्राघ्रायत इति गन्धस्तम्, 'रस' यास्वादने, रस्यतेऽनेनेति रसस्तञ्च, स्पृश्यत इति स्पर्शस्तश्च चशब्दौ पूरणार्थौ । बद्धस्पृष्टमिति बद्धं - आश्लिष्टं तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः स्पृष्टं पूर्ववत्, प्राकृतशैन्या चेत्थमुपन्यासो ' बद्धपुङ्कं ' इति । परमार्थतस्तु स्पृष्टं च तद्वद्धं च स्पृष्टबद्धमिति द्रष्टव्यम् । आह-यद्वद्धं गन्धादि तत्स्पृष्टं भवत्येव, अस्पृष्टस्य सम्बन्धायोगात्, तत्र स्पृष्टशब्दोच्चारणं गतार्थत्वादनर्थमिति नैष दोषः, शास्त्रारम्भस्य सर्वश्रोतृसाधारणत्वात् । त्रिविधा हि श्रोतारः केचिदुद्घटितज्ञाः केचिन्मध्यमबुद्धयः तथाऽन्ये Jain Education Inonal For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy