SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ रत्नाकर विचार- पुनः श्रोत्रेन्द्रियस्य प्राप्यकारिताभ्युपगच्छन्तः शब्दस्याम्बरगुणत्वं प्रतिपन्नाः तदश्लीलमाकाशगुणतायां शब्दस्यामूर्तत्व प्रसक्तेः, यो हि यद्गुणः स तत्समानधर्मा यथा ज्ञानमात्मनः, तथा हि-अमूर्त आत्मा ततस्तद्गुणो ज्ञानमप्यमूर्तमेव, एवं ॥१२६॥NI शब्दोऽपि यद्याकाशगुणस्तर्हि आकाशस्यामूर्तत्वाच्छब्दस्यापि तद्गुणत्वेनामूर्तता भवेत् न चासौ युक्तिसङ्गता तल्लक्षणायोगात्, मूर्तिविरहो ह्यमूर्तता, न च शब्दानां मृतिविरहः स्पर्शवचात् । तथा हि-स्पर्शवन्तः शब्दास्तत्सम्पर्के उपघातदर्शनालोष्टवत्, न चायमसिद्धो हेतुः, यतो दृश्यते सद्योजातबालकानां कर्णदेशाभ्यर्णगाढास्फालितझल्लरीझात्कारश्रवणतः श्रवणस्फोटः, न चेत्थमुपघातकृत्वमस्पर्शवत्वे सम्भवति यथा हि विहायसः, ततो विपक्षे गमनासम्भवान्नैकान्तिकोऽपि, अतश्च स्पर्शवन्तः शब्दाः, तैरभिघाते गिरिगह्वरभित्यादिषु शब्दोत्थानालोष्टवत् , अयमपि हेतुरुभयोरपि सिद्धः। तथा हिश्रूयन्ते तीव्रप्रयत्नोचारितशब्दाभिघाते गिरिगहरादिषु प्रतिशब्दोः प्रतिदिक, ततः स्पर्शवत्वान्मूतों एवं शब्दाः, 'रूपस्पशादिसन्निवेशो मृर्ति' रिति वचनात, ततः कथमिवाकाशगुणत्वं शब्दानामुपपत्तिमत् । अपि च तदाकाशमेकमनेकं वा, यद्येकं तर्हि योजनलक्षादपि श्रूयेत् आकाशस्यैकत्वेन शब्दस्य तद्गुणतया दूरासन्नादिभेदाभावात्, अथानेकमेवं सति वदनदेशे एव स विद्यते इति कथं भिन्नदेशवर्तिभिः श्रूयते, बदनदेशाकाशगुणतया तस्य श्रोत्रेन्द्रियाकाशसम्बन्धाभावात् । अथ च श्रोत्रेन्द्रियाकाशसम्बद्धतया तच्छ्रवणमभ्युपगम्यते तन्न श्रेयानाकाशगुणत्वाभ्युपगमः । नन्वाकाशगुणत्वमन्तरेण शब्दस्यावस्थानमेव नोपपद्यते, अवश्यं हि पदार्थेन स्थितिमता भवितव्यं तत्र रूपस्पर्शरसगन्धानां पृथिव्यादिमहाभूतचतुष्टयमाश्रयः | शब्दस्य त्वाकाशमिति तदयुक्तम्, एवं सति पृथिव्यादीनामप्याकाशाश्रितत्वेनाकाशगुणत्वप्रसक्तेः । अथ नाश्रयणमानं ॥१२६॥ Jain Education a l For Private Personal use only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy