________________
इह चक्षुषो रूपकृतानुग्रहोपघाती नोपलभ्येते, श्रोत्रेन्द्रियस्य तु शब्दकृतोपघात उपलम्भगोचरोऽस्ति, यथोक्तं प्राक, ततो नातिप्रसङ्गोपादानं युक्तिमत् । अन्यच्च प्रत्यासमोऽपि जनः पवनस्य प्रतिकूलमवतिष्ठमानः शब्दं न शृणोति, पवनवमनि पुनरवतिष्ठमानो दरदेशस्थितोऽपि शृणोति, तथा च लोके वक्तारो न वयं प्रत्यासन्ना अपि त्वदीयं शब्दं शृणुमः पवनस्य प्रतिकूलमवस्थानात , यदि पुनरप्राप्तमेव शब्दं रूपमिव जना प्रमिणुयुस्तर्हि पवनस्य प्रतिकूलमप्यवतिष्ठमाना रूपमिव शब्दं यथावस्थितं परिच्छिन्द्युः न च परिच्छिन्दन्ति, तस्मात्प्राप्ता एव शब्दपरमाणवः श्रोत्रेन्द्रियेण परिगृह्यन्ते इत्यवश्यमभ्युपगन्तव्यम् , अन्यथा क्रमग्रहणानुपपत्तेः । तथा हि-यद्यप्राप्ता एव शब्दा गृह्यन्ते सर्हि तेषां योग्यदेशावस्थितानां समीपस्थैदरस्थैश्च ग्रहणककालं भवेत् यथा चक्षुषा योग्यदेशावस्थितानां घटपटादीनाम् , क्रमेण च ग्रहणमनुभूयते पूर्व समीपस्थैरिति । यदपि चोक्तं चाण्डालस्पर्शदोष इति तदपि चेतनाविकलपुरुषभाषितमिवासमीचीनम् , स्पर्शास्पर्शव्यवस्था हि लोककाल्पनिकी, न पारमार्थिकी। तथा हि-यामेव भुवमग्रे चाण्डालः स्पृशन् याति तामेव पृष्ठतः श्रोत्रियोऽपि, तथा यामेव नावमारोहति चाण्डालस्तामेवारोहति श्रोत्रियोऽपि, तथा स एव मारुतश्चाण्डालं स्पृष्ट्वा श्रोत्रियमपि स्पृशति, न च तत्र लोके स्पर्शदोषव्यवस्था, तथा शब्दपुद्गलसंस्पर्शेऽपि न भवतीति न कश्चिद्दोषः । अन्यच्च यदा केतकीदलनिचयं शतपत्रादिपुष्पनिचयं वा शिरसि निबद्ध्य वपुषि वा मृगमदचन्दनाद्यवलेपनमारचय्य विपणिवीथीमागत्य चाण्डालोऽवतिष्ठते तदा तद्गतकेतकीदलादिगन्धपुद्गलाः श्रोत्रियादिनासिकास्वपि प्रविशन्ति, ततस्तत्रापि चाण्डालस्पर्शदोषः प्रामोतीति तद्दोषभयामासिकेन्द्रियमप्राप्यकारि प्रतिपत्तव्यम्, न चैतद्भवतोऽप्यागमे प्रतिपाद्यते ततो बालिशजल्पितमिति कृतं प्रसङ्गेन । केचित्
Jain Education 16
tonal
For Private & Personel Use Only
www.jainelibrary.org