________________
विचार
रत्नाकरः
॥१२॥
पापेक्षया प्रायः पटुतरं ततः स्पृष्टमात्रमेव शब्दद्रव्यसमूहं गृहाति, एतेन यदाहुः सुगतमतानुसारिणः श्रोत्रमप्यप्राप्तकारि, तथा च तद्न्थः -'चक्षुःश्रोत्रमनोप्राप्यकारी'ति ते प्रतिक्षिप्ता द्रष्टव्याः, तथा हि-अप्राप्यकारि तत्प्रतिपत्तुं शक्यते यस्य विषयकृतानुग्रहोपघाताभावः, यथा चक्षुर्मनसी, श्रोत्रस्य च शब्दकृत उपघातो दृश्यते, सद्योजातबालस्य समीपे महाप्रयत्नताडितझल्लरीझात्कारश्रवणतः, यद्वा विद्युत्प्रपाते तत्प्रत्यासन्नदेशवर्तिनां निर्घोषश्रवणतो बधिरीभावदर्शनात् । शब्दपरमाणवो हि उत्पत्तिदेशादारभ्य जलतरङ्गन्यायेन प्रसरमभिगृहानाः श्रोत्रेन्द्रियमागच्छन्ति, ततः सम्भवत्युपधातः। ननु यदि श्रोत्रे
न्द्रियं प्राप्तमेव शब्दं गृहाति नाप्राप्तं तर्हि यथा गन्धादौ गृह्यमाणे न तत्र दूरासन्नादितया भेदप्रतीतिः, एवं शब्देऽपि न 5 स्यात् , प्राप्तो हि विषयः परिच्छिद्यमानः सर्वोऽपि सन्निहित एव, तत्कथं दूरासन्नादिभेदप्रतीतिर्भवतुमर्हति ?। अथ च प्रतीयते
शब्दो दूरासन्नादितया, तथा च लोके वक्तारः श्रूयते कस्यापि दूरे शब्द इति । अन्यच्च यदि प्राप्तः शब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाण्डालोक्तोऽपि शब्दः श्रोत्रेन्द्रियसंस्पृष्टो गृह्यते, इति श्रोत्रस्य चाण्डालस्पर्शदोषः, तन्न श्रेयसी श्रोत्रस्य प्राप्तकारिता, तदेतन्महामोहमलीमसमानसभाषितम् । यतो यद्यपि शब्दः प्राप्तो गृह्यते श्रोत्रेन्द्रियेण तथाऽपि यत उत्थितः शब्दस्तस्य दूरासन्नत्वे शब्देऽपि स्वान्यवैचित्र्यसम्भवाइरासन्नादिभेदप्रतीतिरुल्लसिष्यति, तथा हि-दूरादागतःशब्दःक्षीणशक्तिकत्वात्खिन्न इव लक्ष्यते अस्पष्टरूपो वा, ततो लोके व्यवहारो दूरे शब्दः श्रूयते इति, अस्य वाक्यस्यायं भावार्थ:--- दूरादागतः शब्दः श्रूयते, स्यादेतदेवमतिप्रसङ्गः प्रामोति, तथा हि-एतदपि वक्तुं शक्यते दूरे रूपमुपलभ्यते, किमुक्तं भवति ? दूरादागत रूपमुलभ्यते, ततश्चक्षुरपि प्राप्यकारीति प्रामोति न चैतदिष्यते तस्मान्न तत्समीचीनमिति तदयुक्तं, यत
॥१२॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education inte