________________
विचार-
रत्नाकर
॥१२४॥
चानपानादि, दैवादेक्षन्न किञ्चन ॥ ३३ ॥ इतस्ततोऽन्वेषयश्च, सार्थवाहः स्वयं ततः। ईक्षाञ्चके घृतं स्त्यानं, निजाशयमि- वामलम् ॥ ३४ ॥” इति ॥ ३६ ॥ तथा वसुदेवहिण्डौ पुष्पमालावृत्तौ च वसुदेवपूर्वभवे चारित्रपर्यायः ५५००० वर्षाणि । हैमनेमिचरित्रे तु १२००० वर्षाणि ॥ ३७॥ तथा वसुदेवहिण्डो वसुदेवपूर्वभवमातुलस्य कन्यात्रयम् । हैमनेमिचरित्रे तु कन्यासप्तकमिति ॥ ३८ ॥ नेमिचरित्रे वन्दारुवृत्तौ च द्वारिकायां नेमिनाथे सति चतुर्मासके वन्दनाय नागतः कृष्णः । भवभावनावृत्तौ तु " धम्मत्थं मोत्तूण" इत्याद्यक्षरधर्मार्थ विना नियमो गृहीतोऽस्तीति ।। ३६ ।। तथा यदा किल नेमिः प्रबजितस्तदा रथनेमिज्येष्ठभ्राता राजीमतीमुपचरति, सा मामिच्छेत् इति, सा भगवती निर्विणकामभोगा अन्यदा तदभिप्राय ज्ञात्वा मधुघृतसंयुता पेया पीता, तस्मिन्नागते तया मदनफलाघ्राणेन वान्ता । उक्तं च-'धिगत्थु ते जसोकामी' इत्यादि । इति गच्छाचारप्रकीर्णकवृत्तौ । तथैव च तिलकाचार्यकृतदशवैकालिकवृत्तावपि “गृही चतुर्वर्षशती, छमस्थो वत्सरं स्थितः । पञ्चवर्षशतीमासीद्रथनेमिस्तु केवली ।। १८५॥ राजीमत्या अपि तथा, कौमारं छद्मवासितम् । केवलित्वं च सर्वोऽपि, पर्यायो रथनेमिवत् ।। १८६ ॥ नेमेवर्षशतेनाये, ययौ राजीमती शिवम् । यद्रक्तो माममुचन्नेमिः, सिद्धिं तां किल वीक्षितुम् ॥ १-७॥ माहेन्द्रऽगाच्छिवा देवी, समुद्रविजयोऽपि च । दशाही अपरेऽप्यष्टौ, स्वर्गलक्ष्मीभुजोऽभवत् ॥१८॥" नेमेस्तु त्रीणि शतानि गृहस्थपर्याय इत्यत्रापि नेमितो रथनेमिज्येष्ठभ्रातैव । नेमिचरित्रे तु-"इतश्च नेमिरनुजो, रथनेमिः स्मरातुरः । जज्ञे राजीमती पश्यन्निन्द्रियाणां वशंवदः ॥२५८॥ ४० ॥ तथा असुरादयो याबद्वनस्पतिकायिका अनन्तरमुद्धृतास्तीर्थ न लभन्ते, अन्तःक्रियां पुनः कुर्युः । इति प्रज्ञापना २० पदवृत्तौ । वसुदेवचरिते तु नागकुमारेभ्योऽप्युद्धृतोऽनन्तरमेरवत
॥१२४॥
Jain Education Inter
For Private & Personal Use Only
hiww.jainelibrary.org