SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सहस्राणि तयोरदात् । उपदेशमालाकर्णिकायामपि-"प्रज्ञप्तिमुख्याः प्रीतेन, फणीन्द्रेण तयोर्ददे । पाठसंसिद्धविद्याष्टचत्वारिंशत्सहस्यथ ।। १॥" उपदेशसित्तरीवृत्तौ तु त्रयोदशोपदेशे-"अवादीद्धरणो नाहं, पथिकः किं तु नागराट् । राज्यादिदाता याचेथां, तावां यद्विलोक्यते ॥ २०॥ त्रैलोक्यं यच्छसि त्वं चेन्न कार्य तदपि त्वया । यदि दास्यति तद्दाता, स्वाम्येव खलु नापरः ॥ २१ ॥ भक्तिस्थैर्यमिति ज्ञात्वाऽवातरत्स्वामिनो मुखे । तुष्टो भवद्भचामेषोऽहं, साम्राज्यं गृह्यतामिदम् ॥२२॥ इति प्रोच्य स वैताढ्याधिपत्यं प्रददे तयोः। अष्टघ्नषट्सहस्राणि, प्रौढविद्याश्च विश्रुताः ॥ २३ ॥" वृद्धशत्रुञ्जयमाहात्म्यतृतीयसर्गे तु-" सेवावहे न भरतं, प्रतिज्ञायेति तौ ततः । असेवितां विभुं पार्श्वद्वये कृष्टासिधारिणौ ॥ ५८० ॥ पातालविभुरन्येधुर्धरणेन्द्रः परीक्षणात् । अत्यन्तं तातपादेषु, तावज्ञासीत्सुभक्तिकौ ।। ५८१ ॥ विद्याः षोडशसहस्राण्यदाद्वैताढ्यपर्वते । दक्षिणोत्तरश्रेण्याश्च, राज्यं ताभ्यां मुदा सह ॥५८२॥" अत्र केचिद्विद्यानामष्टचत्वारिंशत्सहस्राणि, केचित् षोडश सहस्राणि, केचिद्धरणेन्द्रेण स्वयं विद्याः प्रदत्ताः, केचिच्च भगवन्मुखेवतीर्येति मतद्वयमवसेयम् ॥ २३ ॥ २४ ॥ हरिभद्रमरिकृतदशवैका लिकवृत्तौ हैमचरित्रे नवपदप्रकरणवृत्तौ च चक्रिणः सप्तम्यामेव गच्छन्तीत्युक्तम् । भगवतीद्वादशशतकनवमोद्देशकाभिप्रायेण IN तु सप्तस्वपि नरकेषु गच्छन्तीति ॥ २५ ॥ तथा पद्मचरित्रे सीता जनकराजपुत्री गीयते । वसुदेवहिंडि १ खंडे तु मन्दोदरी रावणयोः ॥ २६ ।। हेमाचार्यकृतनेमिचरित्रशत्रुञ्जयमाहात्म्यशीलतरङ्गिण्यादिग्रन्थेषु द्रौपद्याः सुकुमालिकाभवे अष्टमासिकी संलेखना सौधर्मदेवलोकगमनं च । ज्ञातायां तु अर्द्धमासिकी संलेखना ईशानदेवलोकगमनं च ॥ २७॥ कल्पे वीरस्य दीक्षापर्यायः ४२ वर्षाणि । समवायाङ्गे तु साधिकानि ॥ २८॥ तथा " तावदावसथद्वारे, राजसूनोरुपायने। केनचिच्चक्रिर कुम्भार, Sr Join Education International For Private & Personal use only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy