________________
विचार
रत्नाकर
॥१२॥
चतुःशतगुणेना तृतीयाङ्गुललक्षणखविष्कम्भान्वितेनानीयन्ते, न तु सहस्रगुणया अङ्गलविष्कम्भया सूच्येति, शेष भावितार्थम् । इत्यनुयोगद्वारसूत्रवृत्तौ १४८ प्रतौ १८ पत्रे ॥३॥ al इति श्रीमदकब्बरभूपालत्रिशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपा
ध्यायश्रीकीर्तिविजयगणिसमुचिते श्रीविचाररत्नाकरे मध्यभागे अनुयोगद्वारविचारनामा दशमस्तरङ्गः ॥ १० ॥ कल्याणवल्लीजलदच्छटाय, प्रध्वस्तनिःशेषतमोघटायै । सुरासुरश्रेणिनिषेवितायै, नमोऽस्तु नित्यं श्रुतदेवतायै ॥१॥ अथानेकशास्त्रान्तर्वर्तीनि मतान्तराणि लिख्यन्ते--
" मल्लिस्स णं अरहो सत्तावनं मणपज्जवनाणीसते होत्था" । इति समवायाङ्गे। ज्ञाताधर्मकथाङ्गे तु-"अट्ठसया मणनाणीणं" ॥१॥ "सोलसदेवीसहस्सा वरनयणहिययदइया" इति प्रश्नव्याकरणे ४ आश्रये कृष्णस्य षोडश सहस्राः स्त्रीणाम् । ज्ञाताधर्मे तु-" रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं" ॥२॥ तथा श्रीजम्बूद्वीपप्रज्ञप्तिचतुर्दशे पत्रे-" पंचदस कुलगरा पमत्ता-सुमती १ पडिसुमती २ सीमंकरे ३ सीमंधरे ४ खेमंकरे ५ खेमंधरे ६ विमलवाहणे ७ चक्खुमं ८ जसमं ६ अभिचंदे १० चंदाभे ११ पसेणई १२ मरुदेवे १३ नाभी १४ उसमे १५" इति । स्थानाङ्गे च सावचूरिकप्रतो १८१ पत्रेसमवायाङ्गसूत्रे च ४६ पत्रे-"पढमित्थविमलवाहण १, चक्खुम २ जसमं ३ चउत्थमभिचंदे ४ । तत्तो पसेणईए ५, मरुदेवे चेव नाभी य ॥ १॥" इति सप्तैवेति ॥३॥ तथा “ विजयवेजयंतजयंतअपराजियाणं भंते ! देवाणं केवइयं कालं ठिती पसत्ता ? गोयमा ! जहनेणं बत्तीसं सागरोवमाई, उकोसेणं तेत्तीसं सागरोवमाई । ” इति समवायाङ्गे ३२ समवाये । प्रज्ञा
॥१२॥
Jain Education Inter
For Private & Personal Use Only
Yiww.jainelibrary.org